SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अपरिज्ञातकर्मणोऽनेकविधदुःखवेदनम् [श्रु०१। अ०१। उ०१। सू०६] देविंद-चक्कवट्टित्तणाई मोत्तुं च तित्थयरभावं । अणगारभाविया वि य सेसा उ अणंतसो पत्ता ॥ [ ] एताश्च अनेकरूपा योनी: दिगादिषु पर्यटन् अपरिज्ञातकर्मा असुमान् संधेई त्ति सन्धयति सन्धि करोति आत्मना सह अविच्छेदेन सङ्घटयतीत्यर्थः । संधावइ त्ति वा पाठान्तरम्, संधावति पौनःपुन्येन ता गच्छतीत्यर्थः । तत्सन्धाने च यदनुभवति तद् दर्शयति विरूपं बीभत्सं अमनोज्ञं यं स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, "तात्स्थ्यात् तद्व्यपदेशः" इति कृत्वा, उपलक्षणं चैतद् मानस्योऽपि वेदना ग्राह्याः । अतस्तान् एवम्भूतान् स्पर्शान् प्रतिसंवेदयति =अनुभवति । प्रतिग्रहणात् प्रत्येकं शारीरान् मानसान् च दुःखोपनिपातान् अनुभवति इत्युक्तं भवति । स्पर्शग्रहणं चेह सर्वसंसारान्तर्वतिजीवराशिसङ्ग्रहार्थम्, स्पर्शनेन्द्रियस्य सर्वजीवव्यापित्वात् । अत्र इदमपि वक्तव्यम्- सर्वान् विरूपरूपान् रस-गन्ध-रूप-शब्दान् प्रतिसंवेदयतीति । विरूपरूपत्वं च स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात् कारणभूताद् भवतीति वेदितव्यम्, विचित्रकर्मोदयात् च अपरिज्ञातकर्मा संसारी स्पर्शादीन् विरूपरूपान् तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयति, आह च "तैः कर्मभिः स जीवो विवशः संसारचक्रमुपयाति । द्रव्य-क्षेत्रा-ऽद्धा-भावभिन्नमावर्तते बहुशः ॥ नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च । पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ॥ सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक्षु भय-क्षुत्-तृड्-वधादिदुःखं सुखं चाल्पम् ॥ सुख-दुःखे मनुजानां मनः-शरीराश्रये बहुविकल्पे । सुखमेव हि देवानां दुःखं स्वल्पं चे मनसि भवम् ॥ कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥ टि० १. मुत्तूण तित्थ० घ च ॥ २. ०या इ य मोत्तूणमणं० क ॥ ३. य घ च ॥ ४. ०यते ख ॥ ५. सङ्घट्टय० ग ॥ ६. ०म् पौनः० क ख ॥ ७. तां क । वा घ ङ ।। ८. ०न्धानेन च ख घ ङ ॥ ९. ०था दुःखो० ग ॥ १०. अत्रैतदपि ग ।। ११. ०यतीति आह घ ङ च ॥ १२. ०बन्धमु० च ॥ १३. तु ख घ ङ॥ ४५
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy