SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ क्रियापरिमाणनिश्चयः [श्रु०१। अ०१। उ०१। सू०६] कुर्वन्तं अन्यं अनुज्ञातवान् इत्येवं कृत-कारिता-ऽनुमतिभिः भूतकालाभिधानम् । तथा करोमि इत्यादिना वचनत्रिकेण वर्तमानकालोल्लेखः । तथा करिष्यामि कारयिष्यामि कुर्वतो अन्यान् प्रति सेमनुज्ञः अनुज्ञापरायणो भविष्यामि इति अनागतकालोल्लेखः । अनेन च कालत्रयसंस्पर्शेन देहेन्द्रियातिरिक्तस्य आत्मनो भूत-वर्तमान-भविष्यत्कालपरिणतिरूपस्य अस्तित्वावगति: आवेदिता भवति। सा च न एकान्तक्षणिक-नित्यवादिनां सम्भवतीति अतोऽनेन ते निरस्ताः, क्रियापरिणामेन आत्मनः परिणामित्वाभ्युपगमादिति । एतदनुसारेणैव सम्भवानुमानाद् अतीता-ऽनागतयोरपि कालयोः आत्मास्तित्वं अवसेयम् । यदि वा अनेन क्रियाप्रबन्धप्रतिपादनेन कर्मण उपादानभूतायाः क्रियायाः स्वरूपं आवेदितमिति ॥४॥ अथ किं एतावत्य एव क्रियाः उत अन्या अपि सन्ति ? इति, ऐतावत्य एव इत्याह[सू० ] एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणितव्वा भवंति ॥५॥ एयावंतीत्यादि । एतावन्तः सर्वेऽपि लोके प्राणिसङ्घाते कर्मसमारम्भाः =क्रियाविशेषा ये प्रागुक्ताः अतीता-ऽनागत-वर्तमानभेदेन कृत-कारिता-ऽनुमतिभिश्च, अशेषक्रियानुयायिना च करोतिना सर्वेषां सङ्ग्रहादिति एतावन्त एव परिज्ञातव्या भवन्ति, नान्य इति । परिज्ञा च ज्ञ-प्रत्याख्यानभेदाद् द्विधा । तत्र ज्ञपरिज्ञया आत्मनो बन्धस्य च अस्तित्वं एतावद्भिरेव सर्वैः कर्मसमारम्भैः ज्ञातं भवति । प्रत्याख्यानपरिज्ञया च सर्वे पापोपादानहेतवः कर्मसमारम्भाः प्रत्याख्यातव्या इति ।।५।। इयता सामान्येन जीवास्तित्वं प्रसाधितम् । अधुना तस्य एव आत्मनो दिगादिभ्रमणहेतूपप्रदर्शनपुरस्सरं अपायान् प्रदर्शितुमाह । यदि वा य: तावद् आत्म-कर्मादिवादी स दिगादिभ्रमणात् मोक्ष्यते, इतरस्य तु विपाकाने दर्शयितुमाह[ सू०] अपरिण्णायकम्मे खलु अयं पुरिसे जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरति सव्वाओ दिसाओ सव्वाओ अणुदिसाओ सहेति, अणेगरूवाओ जोणीओ संधेति, विरूवरूवे फासे पडिसंवेदयति ॥६॥ अपरिन्नाय० इत्यादि । यो अयं पुरि शयनात् पूर्णः सुख-दुःखानां वा-पुरुषः टि० १. निति भू(कृ)त० क ॥ २. समनुज्ञापरा० क ग ङ । समनुज्ञानपरा० ख ॥ ३. ०न्तनित्यक्षणिकवा० ख ॥ ४. ०पि भवयो० ख विना ॥ ५. ०याः सम्प्रदानमावे० च ।। ६. एता एवे० ङ । ७. ०मणे हे० च ॥ ८. ०गादिपरिभ्र० ग च ॥ ९. ०न् प्रदर्श० ख घ ङ । १०. ०न्नायए इत्या० ख । ०न्नाएत्या० च ॥ ११. सोऽयं क ख ॥ ४३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy