________________
[श्रु०१। अ०१। उ०१। सू०४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् जाव तं तं भावं परिणमति ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा, नो णं अबंधए" [व्या०प्रज्ञ०३।४।१५२] त्ति।
एवं च कृत्वा य एव कर्मवादी स एव क्रियावादीति । अनेन च साङ्ख्याभिमतं आत्मनो अक्रियावादित्वं निरस्तं भवति ॥३॥
साम्प्रतं पूर्वोक्तां क्रियां आत्मपरिणतिरूपां विशिष्टकालाभिधायिना तिङ्प्रत्ययेन अभिदधद् अहंप्रत्ययसाध्यस्य आत्मनः तद्भवे एव अवधि-मनःपर्याय-केवलज्ञानजातिस्मरणव्यतिरेकेण एव त्रिकालसंस्पर्शिना मतिज्ञानेन सद्भावावगमं दर्शयितुमाह[सू०] अकरिसुं च हं काराविसुं च हं करओ यावि समणुण्णे भविस्सामि ॥४॥
'अकरिसुं च हं काराविसुं च हं करओ यावि समणुण्णे भविस्सामि' त्ति । इह भूत-वर्तमान-भविष्यत्कालापेक्षया कृत-कारिता-ऽनुमतिभिः नव विकल्पाः सम्भवन्ति । ते चामी-अहं अकार्षं अचीकरं अहं कुर्वन्तं अन्यं अन्वज्ञासिषमहम्, करोमि कारयामि अनुजानामि अहमिति, करिष्यामि अहं कारयिष्यामि अहं कुर्वन्तं अन्यं अनुज्ञास्यामि अहमिति । एतेषां च मध्ये आद्यन्तौ सूत्रेण एव उपात्तौ, तदुपादानात् च तन्मध्यपातिनां सर्वेषां ग्रहणम् । अस्यैव अर्थस्य आविष्करणाय द्वितीयो विकल्पः कारावेसुं चऽहमिति सूत्रेणैव उपात्तः । एते च चकारीयोपादानाद् अपिशब्दोपादानात् च मनो-वाक्-कायैः चिन्त्यमानाः सप्तविंशतिः भेदा भवन्ति । अयमत्र भावार्थः- अकार्षं अहं इति अत्र अहं इति अनेन आत्मोल्लेखिना विशिष्टक्रियापरिणतिरूप आत्मा अभिहितः । ततश्चायं भावार्थो भवति-स एवाहें येन मया अस्य देहादेः पूर्वं यौवनावस्थायां इन्द्रियवशगेन विषयविषमोहितान्धचेतसा तत्तदकार्यानुष्ठानपरायणेन आनुकूल्यमनुष्ठितम्, उक्तं च
"विहवावलेवनडिएहिं जाइं कीरंति जोव्वणमएण । वयपरिणामे सरियाई ताई हियए खुडुक्कंति ॥" [ ] तथा अचीकरं अहं इत्यनेन परो अकार्यादी प्रवर्तमानो मया प्रवृत्ति कारितः, तथा
टि० १. नो उ णं क ॥ २. ०करिंसु ख । करिस्सं ग घ ङ च ॥ ३-५. व हं ग घ । च अहं च ॥ ४. ०राविंसुं चाहं करओ चावि ख । ०रावेस च घ । ०रावेसं च ङ च ॥ ६. आवि ग घ ङ च ॥ ७. ०राविंसु चाहमिति ख । ०रावेसं च च । ०वेसु च घ । वेसुं चाहं ग ।। ८. सूत्रेणोपात्तः क-खप्रती ऋते ॥ ९. द्वया-ऽपिश० ख ॥ १०. ०तिभेदा ख ग ॥ ११. ०हं मया च ॥ १२. पूर्वयौ० क घ ॥ १३. विषमोहि० ग । विषयमोहि० घ ॥ १४. ०नानुष्ठि० घ ॥ १५. ०वभरिएहिं ख ॥ १६. भरियाई ख। वरियाई ग ॥ १७. खुडक्वंति ख । खडुक्कंति ङ॥ १८. इति परो० क ॥ १९. ०दौ प्रवृत्तमा० क । ०दौ वर्त० घ ॥
वि०टि० + खुडुक्कंति = खटके छे इति गुर्जरभाषायाम् ॥