________________
आत्मवादिनो लोक - कर्म- क्रियावादित्वम् [ श्रु०१ । अ०१ । उ०१ । सू०३] अक्षणिका-ऽमूर्तादिगुणोपेतं आत्मानं वेत्ति स एवम्भूतः आत्मवादी इति आत्मानं वदितुं शीलं अस्य इति; यः पुनः एवम्भूतं आत्मानं नाभ्युपगच्छति सो अनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं क्षणिकं वा आत्मानं अभ्युपैति सोऽपि अनात्मवादी एव, यतः सर्वव्यापिनो निष्क्रियत्वाद् भवान्तरसङ्क्रान्तिः न स्यात्, सर्वथा नित्यत्वेऽपि 'अप्रच्युता - ऽनुत्पन्न - ऽस्थिरैकस्वभावं नित्यम्" [ ] इति कृत्वा मरणाभावेन भवान्तरस रसङ्क्रान्तिरेव न स्यात्, सर्वथा क्षणिकत्वेऽपि निर्मूलविनाशात् सोऽहम् इत्यनेन पूर्वोत्तरानुसन्धानं न स्यात् ।
44
Ε
य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोकः प्राणिगणः, तं वदितुं शीलं अस्य इति; अनेन च आत्माद्वैतवादिनिरासेन आत्मबहुत्वं उक्तम्। यदि वा लोकापाती, लोक:- चतुर्दशरज्ज्वात्मकः प्राणिगणो वा, तत्र आपतितुं शीलं अस्य इति; अनेन च विशिष्टाकाशखण्डस्य लोकसञ्ज्ञा आवेदित । जीवास्तिकायस्य सम्भवेन जीवानां गमना - ऽऽगमनं आवेदितं भवति ।
य एव च दिगादिगमनपरिज्ञानेन आत्मवादी लोकवादी च संवृत्तः स एव असुमान् कर्मवादी, कर्म ज्ञानावरणीयादि, तद् वदितुं शीलं अस्य इति । यतो हि प्राणिनो मिथ्यात्वा-ऽविरति-प्रमाद - कषाय-योगैः पूर्वं गत्यादियोग्यानि कर्माणि आददते पश्चात् तासु तासु विरूपरूपासु योनिषु, उत्पद्यन्ते कर्म च प्रकृति-स्थिति- अनुभाव - प्रदेशात्मकं अवसेयमिति । अनेन च काल - यदृच्छा -ऽऽत्म-नियतीश्वरादिवादिनो निरस्ता दृष्टव्याः ।
तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं बध्यते, योगश्च व्यापारः, स च क्रियारूप:, अतः कर्मणः कार्यभूतस्य वदनात् तत्कारणभूतायाः क्रियाया अपि असौ एव परमार्थतो वादीति । क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धं आगमे, स चायं
आगमः
१३
'जाव णं भंते एस जीवे सया समियं एयइ वेयइ चलइ फंदइ कंदइ तिप्पति
टि० १. ० त्मानमवैति स ग घ ङ च ॥ २. ० ति स नात्म० घ ङ ॥ ३ ०न्तरे स० ङ ॥ ४ ०त्वे अप्र० क ॥ ५. ०न्तिरपि न ख ॥। ६. क्षणविनाशेऽपि निर्मूलत्वात् सोऽहं० क ॥ ७ ०तनिरा० ख ॥ ८. ०ती लोकयतीति लोकः च० ख । ०तीति लोकः ग ।। ९. ०ज्ञा निवे० ख ॥। १०. काल - नियतियदृच्छा - ईश्वरा -ऽऽत्मवादिनो ख ॥। ११. ०च्छा - नियतीश्वरा -ऽऽत्मवादिनो ग घ ङ च ॥ १२. ०त् कार० क ।। १३. फंदइ तिप्पड़ कंपइ जीवो जं जं भावं ख । फंदइ तिप्पति जीवो तं तं ग । फंदइ घट्ट तिप्पति जीवो तं तं घ ङ च ॥
वि०टि० = " समियमिति यावज्जीवम्" जै०वि०प० ॥
४१