SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ [श्रु०१।अ०१। उ०१। सू०३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् ऽपोहविमर्शेन जातिस्मरणमुत्पन्नं यथा-"अहं जन्मान्तरे प्रव्रज्यां कृत्वा देवलोकसुखमनुभूय इहागतः" इति । एवं तेन विशिष्टदिगागमनं स्वमत्या जातिस्मरणरूपया ज्ञातं प्रत्येकबुद्धश्च जातः । एवमन्येऽपि वल्कलचीरि-श्रेयांसप्रभृतयोऽत्र योज्या इति । __ परव्याकरणे तु इदमुदाहरणम्- गौतमस्वामिना भगवान् वर्धमानस्वामी पृष्टः"भगवन् ! किमिति मे केवलज्ञानं नोत्पद्यते ?"। भगवता व्याकृतम्-'गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति तद्वशात्" । तेनोक्तम्-"भगवन् ! एवमेतत्, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः ?"; ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदित:“चिरसंसिट्ठोऽसि मे गोयमा ! चिरपरिचिओऽसि मे गोयमा !" [व्या०प्रज्ञ०१४।७५२१] इति एवमादि । तच्च तीर्थकृत्प्रतिपादितं आकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूद् इति । अन्यश्रवणे तु इदमुदाहरणम्- मल्लिस्वामिन्या षण्णां राजपुत्राणां उद्वाहार्थं आगतानां अवधिज्ञानेन तत्प्रतिबोधनार्थं यथा जन्मान्तरे सहितैः एव प्रव्रज्या कृता यथा च तत्फलं देवलोके जयन्ताभिधाने विमाने अनुभूतं तथा आख्यातम् । तच्च आकर्ण्य ते लघुकर्मत्वात् प्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च सञ्जातम् । उक्तं च "किं थे तयं पम्हटुं जं च तया भो जयंतपवरम्मि । वुत्था समयनिबद्धं देवा तं संभरह जातिं ॥" [ज्ञाताधर्म०१८] इति गाथात्रयतात्पर्यार्थः ॥६४-६६।। साम्प्रतं प्रकृतमनुश्रियते- यो हि सोऽहम् इति अनेन अहङ्कारज्ञानेन आत्मोल्लेखेन पूर्वादेः दिश आगतं आत्मानं अविच्छिन्नसन्ततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थतयों तु अनित्यं जानाति स परमार्थत आत्मवादीति सूत्रकृद् दर्शयति-/ [सू०] से आयावादी लोयावादी कम्मावादी किरियावादि ॥३॥ ‘से आयावादी लोयावादी कम्मावादी किरियावादि' त्ति । स इति यो भ्रान्तः पूर्वं नारक-तिर्यग्-मनुष्या-ऽमराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु टि० १. ०पा विज्ञा० ग च ऋते ॥ २. व्याहृतम् च ॥ ३. ०म्-भो गौ० कपुस्तकाद्विना ॥ ४. ०क्तम्-किंनिमि० ख ।। ५. ०संसट्ठो० ख ॥ ६. ०कृव्याकरणमाक० ख ग ।। ७. ०मिना ष० कआदर्शादृते ।। ८. ०भिधानेऽनु० क ङ। भिधविमा० ख । भिधानविमा० ग ॥ ९. च ग घ च ॥ १०. ०थातात्प० घ ङ ॥ ११. पूर्वाद्या दिश ख ॥ १२. व्या अनि० च ॥ १३. ०मार्थेनाऽऽत्म० ख । ०मार्थतयाऽऽत्म० च ॥ १४. लोयवादी कम्मवादी ख ॥ १५. ०वादीति ख च । ०वादी त्ति ग घ ङ ॥ १६. ग-नरा-ऽम० कपुस्तकेन विना ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy