________________
धर्मरुचिकथानकम् [श्रु०१। अ०१। उ०१ । नि०६६] दर्शयति- अवधि-मनःपर्याय-केवल-जातिस्मरणरूपमिति । तत्र अवधिज्ञानी सङ्ख्येयानसङ्ख्येयान् वा भवान् जानाति । एवं मनःपर्यायज्ञान्यपि । कैवलज्ञानी तु नियमतो अनन्तान् । जातिस्मरस्तु नियमतः सङ्ख्येयानिति । शेषं स्पष्टम् ।। ___ अत्र चे सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थं त्रयो दृष्टान्ताः प्रदर्श्यन्ते, तद्यथा
वसन्तपुरे नगरे जितशत्रू राजा । धारिणी महादेवी । तयोः धर्मरुच्यभिधानः सुतः । स च राजा अन्यदा तापसत्वेन प्रव्रजितुमिच्छुः धर्मरुचिं राज्ये स्थापयितुं उद्यतः । तेन च जननी पृष्टा-"किमिति तातो रोज्यश्रियं त्यजति ?" । तया उक्तम्-"किमनया चपलया नारकादिसकलदुःखहेतुभूतया स्वर्गा-ऽपवर्गमार्गार्गलया अवश्यमपायिन्या परमार्थत इहलोकेऽपि अभिमानमात्रफलया ?, अतो विहाय एनां सकलसुखसाधकं धर्मं कर्तुमुद्यतः"। धर्मरुचिः तमाकर्ण्य उक्तवान्-"यद्येवं किमहं तातस्य अनिष्टो येन एवम्भूतां सकलदोषा श्रयिणीं मयि नियोजयति, सकलकल्याणहेतो धर्मात् प्रच्यावयति ?" इत्यभिधाय पित्रानुज्ञातः तेन सह तापसाश्रममगात् । तत्र च सेकलां तापसक्रियां यथोक्तां पालयन्नास्ते । अन्यदा चामावास्यायाः पूर्वेऽह्नि एकेन तापसेन उद्घष्टम्, यथा-'भो भोः तापसाः ! श्वोऽनाकुट्टिः भवितो, तद् अद्यैव कुश-कुसुम-समित्-कन्द-फल-मूलाद्याहरणं कुरुत" इति । एतच्च आकर्ण्य धर्मरुचिना जनकः पृष्टः- "तात ! का इयं अनाकुट्टिः नाम?" । तेनोक्तम्-" पुत्र ! लतादीनामच्छेदनं (अनाकुट्टिः, आकुट्टिस्तु छेदनम्,) तद्धि अमावास्यादिके विशिष्टे पर्वदिवसे न वर्तते, सावद्यत्वात् छेदनादिक्रियायाः "। श्रुत्वा चैतद् असौ अचिन्तयत्-"यदि पुनः सर्वदाऽनाकुट्टिः स्याच्छोभनं भवेत् "। एवमध्यवसायिनः तस्यां अमावास्यायां तपोवनासन्नपथेने गच्छतां साधूनां दर्शनमुभूत् । ते च तेनाभिहिता:"किमद्य भवतामनाकुट्टिः न जाता, येनाटवीं प्रस्थिताः ?"। "तैरभिहितं यथा-"अस्माकं यावज्जीवमेव अनाकुट्टिः" इत्यभिधाय अतिक्रान्ताः साधवः । तस्य च तदाकर्ण्य ईहा
टि० १. ०लज्ञान-जाति० च ॥ २. ०ङ्ख्येयांश्च भवा० घ ङ च || ३. केवली तु ख ग ॥ ४. स्मरणस्तु क-खप्रतिभ्यामृते ।। ५. च सम्म० ख ॥ ६. राज्यं त्यज० च ।। ७. ०या इत्यतो ख ग ङ॥ ८. ०साधनं ग ॥ ९. तथाक० ग ङ। तदाक० च ॥ १०. ०श्रयणी ग ङ। ०श्रयणीयां मयि च ।। ११. सकलास्तापसक्रिया यथोक्ताः पा० ग ङ॥ १२. पूर्वाह्ने ए० ख । पूर्वाह्ण केनचित् ताप० ग ङ ।। १३. ०ता अतोऽद्यैव समित्-कुश-कन्द-फलाद्या० ख । ०ता अतोऽद्यैव समित्-कुसुम-कुश-कन्दफलमूलाद्या० ग ङ ।। १४. ०न्द-मूल-फलाद्या० घ च ॥ १५. एतच्च धर्म० ख च ॥ १६. ०ट्टिरिति ? तेनो० ख ग ॥ १७. पुत्र ! कन्दफलादीना० ग ॥ १८. सर्वथाऽना० च ॥ १९. ०स्याममावा० क ॥ २०. तपोधना० ख ग || २१. ०थेनागच्छ० क ॥ २२. न सञ्जाता ख ग ॥ २३. तैरप्यभि० ख ग ॥ २४. ०वमना० कप्रत्या विना ॥