SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ [श्रु० १ | अ०१ । उ०१ । सू०२] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् तेत्र अनेन सामान्यात्मास्तित्वप्रतिपादनेन अक्रियावादिनो निरस्ता दृष्टव्याः । किञ्च आत्मास्तित्वानभ्युपगमे च— 44 'शास्ता शास्त्रं शिष्यः प्रयोजनं वचन - हेतु - दृष्टान्ताः । सन्ति न शून्यं वदतस्तदभावादप्रमाणं स्यात् ॥ प्रतिषेद्धृ-प्रतिषेधौ स्तश्चेच्छून्यं कथं भवेत् सर्वम् । तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः ॥" [ ] एवं शेषाणामपि अत्रैव यथासम्भवं निराकरणमुत्प्रेक्ष्यमिति ॥ १ ॥ गतं आनुषङ्गिकम् । प्रकृतमनुश्रियते तत्र इह एवमेगेसिं नो नायं भवइ इत्यनेन केषाञ्चिदेव सञ्ज्ञानिषेधात् केषाञ्चित् तु भवतीति उक्तं भवति । तत्र सामान्यसञ्ज्ञायाः प्रतिप्राणिसिद्धत्वात् तत्कारणपरिज्ञानस्य च इह अकिञ्चित्करत्वात्, विशिष्टसञ्ज्ञायाः तु केषाञ्चिदेव भावात् तस्याः तु भवान्तरगाम्यात्मस्पष्टप्रतिपादने सोपयोगित्वात् सामान्यसञ्ज्ञाकारणप्रतिपादनं अनादृत्य विशिष्टसञ्ज्ञायाः कारणं सूत्रकृद् दर्शयितुमाह[सू०] से ज्जं पुण जाणेज्जा सहसम्मुइयाए परवागरणेणं अण्णेसिं वा अंतिए सोच्चा, तं जहा - पुरत्थिमातो वा दिसातो आगतो अहमंसि एवं दक्खिणाओ वा पच्चत्थिमाओ वा उत्तराओ वा उड्डाओ वा अहाओ वा अन्नतरीओ दिसाओ वा अणुदिसाओ वा आगतो अहमंसि, एवमेगेसिं जातं भवति । अत्थि मे आया उववाइए जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरति सव्वाओ दिसाओ सव्वाओ अणुदिसाओ सो हं ॥२॥ I से ज्जं पुण जाणेज्जत्ति सूत्रं यावत् सोऽहमिति । से इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः । स इति अनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान् स प्रत्यवमृश्यते। यद् इति अनेनापि यत् प्राग्निर्दिष्टं दिग्-विदिगागमनम्, तथा कोऽहं अभूवं अतीतजन्मनि देवो नारकः तैर्यग्योनो मनुष्यो वा ? स्त्री पुमान् नपुंसको वा ? को व अमुतो मनुष्यजन्मे॑नः प्रभ्रष्टोऽहं प्रेत्य देवादिः भविष्यामि ? इत्येतत् परामृश्यते । टि० १. तत्रान्येन घ ङ ॥ २. ० न्यास्तित्व० क ॥। ३. ०व्याः । आत्मास्ति० क - खप्रती ऋते ॥ ४. ० मे - शास्ताख ॥ ५. ०न्यं ब्रुवत० ख ग ।। ६. ०षेध्यप्र० ग ङ ॥ ७ नो संज्ञा भवति ख ॥ ८. ०स्याश्च भ० कपुस्तकमृते ॥ ९. इत्येतेन च घ ङ ॥ १०. ०ग्योनिर्मनु० ग घ ॥ ११. वा मृतो मनु० कग च ॥ १२. ०न्मतः प्र० ग ॥ ३६ वि०टि० ≠ आत्मनः इत्यर्थः ॥ सर्वशून्याभावेन इत्यर्थः ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy