________________
वैनयिकानां भेदाः [श्रु०१। अ०१। उ०१। सू०१] विकल्पाः । नव सप्तकाः त्रिषष्टिः । अमी चान्ये चत्वार: त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथासती भावोत्पत्तिरिति को जानाति ?, किं वा तया ज्ञातया ?; एवमसती सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति ?, किं वा तया ज्ञातया ? इति । शेषविकल्पत्रयं तु उत्पत्त्युत्तरकालं पदार्थावयवापेक्षं अतोऽत्र न सम्भवतीति नोक्तम् । एतच्चतुष्टयप्रक्षेपात् सप्तषष्टिः भवति । तत्र सेन् जीव इति को वेत्ति ? इति अस्य अयमर्थः- न कस्यचिद् विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीन् अवभोत्स्यते, न च तैः ज्ञातैः किञ्चित् फलमस्ति, तथा हियदि नित्यः सर्वगतोऽमूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ततः कतमस्य पुरुषार्थस्य सिद्धिः ? इति तस्माद् अज्ञानमेव श्रेयः । अपि च तुल्येऽपि अपराधे अकामकरणे लोके स्वल्पो दोषः, लोकोत्तरेऽपि आकुट्टिका-ऽनाभोग-सहसाकारादिषु क्षुल्लक-भिक्षुस्थविरोपाध्याय-सूरीणां यथाक्रमं उत्तरोत्तरं प्रायश्चित्तमिति । एवमन्येषु अपि विकल्पेषु आयोज्यम् ।
तथा वैनयिकानां द्वात्रिंशद् भेदाः, ते चानेन विधिना भावनीयाः- सुर-नृप-यतिज्ञाति-स्थविरा-ऽधम-मातृ-पितृषु अष्टसु मनो-वाक्-काय-प्रदानचतुर्विधविनयकरणात्, तद्यथा- देवानां विनयं करोति मनसा वाचा कायेन तथा देश-कालोपपन्नदानेन इति एवमादि । एते च विनयादेव स्वर्गा-ऽपवर्गमार्ग अभ्युपयन्ति । नीचैर्वृत्त्यनुत्सेकलक्षणो विनयः । सर्वत्र चैवंविधेन विनयेन देवादिषु उपतिष्ठमानः स्वर्गा-ऽपवर्गभाग् भवति, उक्तं च
"विणया नाणं णाणाओ दंसणं दसणाओ चरणं च ।। चरणाहिंतो मोक्खो मोक्खे सोक्खं अणाबाहं ॥" [ ]
अत्र च क्रियावादिनां अस्तित्वे सत्यपि केषाञ्चित् सर्वगतो (ऽसर्वगतो) नित्योऽनित्यः कर्ताऽकर्ता मूर्तोऽमूर्तः श्यामाकतन्दुलमात्रोऽङ्गष्ठपर्वमात्रो दीपशिखोपमो हृदयाधिष्ठान इत्यादिको अस्ति चौपपातिकश्च । अक्रियावादिनां तु आत्मैव न विद्यते, कुतः पुनरौपपातिकत्वम् ? । अज्ञानिकाः तु नात्मानं प्रति विप्रतिपद्यन्ते, किन्तु तज्ज्ञानं अकिञ्चित्करं एषामिति । वैनयिकानामपि न आत्मास्तित्वे विप्रतिपत्तिः, किन्तु अन्यद् मोक्षकारणं विनयाद् ऋते न सम्भवतीति प्रतिपन्नाः ।
टि० १. वा ज्ञात० क घ ङ। वाऽनया ज्ञा० ग च ॥ २. ०पेक्ष्यम० च ॥ ३. सज्जीव क ॥ ४. ज्ञानि० ग ॥ ५. तद्यथा इति न वर्तते पुस्तके ॥ ६. ०पन्नेन दाने० क-चप्रतिभ्यामृते ॥ ७. र्गमभ्यु० ग घ च ॥ ८. ०न्ति । सर्वत्र ख ॥ ९. ०न स्वर्गा० ख ॥ १०. ०ष्ठन् स्वर्गा० घ च ॥ ११. ति। विणया क ॥ १२. ०णा हि च० ङ॥ १३. ०पमानो हृ० घ च ॥ १४. मोक्षसाधनं ख ग ॥ १५. ति विप्रति० क ॥
३५