SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०१। उ०१। सू०१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् चात्मनः तादृग् अस्ति किञ्चिल्लक्षणं येन सत्ता प्रतिपद्येमहि, नापि कार्य अणूनामिवे महीध्रादि सम्भवति, यच्च लक्षण-कार्याभ्यां नाधिगम्यते वस्तु तद् नास्त्येव यथा वियदिन्दीवरम्, तस्माद् नास्ति आत्मा इति । द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं बिभर्ति गगनारविन्दादिकं तत् परतोऽपि नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात् सर्वार्वाग्भागसूक्ष्मत्वात् चोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते, उक्तं च "यावद् दृश्यं परस्तावद् भागः स च न दृश्यते ।" [ ] इत्यादि । तथा यदृच्छातोऽपि नास्तित्वं आत्मनः । का पुनः यदृच्छा ? अनभिसन्धिपूर्विका अर्थप्राप्तिः यदृच्छा, "अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुख-दुःखजातम् । काकस्य तालेन यथाभिघातो, न बुद्धिपूर्वोऽत्र वृथाभिमानः ॥ सत्यं पिशाचाः स्म वने वसामो, भेरी कराग्रैरपि न स्पृशामः । यदृच्छया सिद्ध्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ॥" [ ] यथा काकतालीयं अबुद्धिपूर्वकम्, न काकस्य बुद्धिः अस्तीति मयि तालं पतिष्यति, नापि तालस्य अभिप्राय: काकोपरि पतिष्यामि, अथ च तत् तथैव भवति । एवं अन्यदपि अतर्कितोपनेतं अजाकृपाणीयं आतुरभेषजीयम् अन्धकण्टकीयमित्यादि दृष्टव्यम् । एवं सर्वं जाति-जरा-मरणादिकं लोके यादृच्छिकं काकतालीयादिकल्पं अवसेयमिति । एवं नियति-स्वभावेश्वरा-ऽऽत्मभिः अपि आत्मा निराकर्तव्यः । तथा अज्ञानिकानां सप्तषष्टिभेदाः, ते चामी- जीवादयो नव पदार्थाः, उत्पत्तिश्च दशमी, सद् १ असत् २ सदसद् ३ अवक्तव्यः ४ सदवक्तव्यः ५ असदवक्तव्यः ६ सदसदवक्तव्यः ७ इति एतैः सप्तभिः प्रकारैः विज्ञातुं न शक्यन्ते, न च विज्ञातैः प्रयोजनमस्ति । भावना चेयम्- सन् जीव इति को वेत्ति ? किं वा तेन ज्ञातेन ? असन् जीव इति को जानाति ? किं वा तेन ज्ञातेन ? इत्यादि । एवमजीवादिषु अपि प्रत्येकं सप्त १३ टि० १. प्रपद्ये० ख ॥ २. ०व महामहीध्रा० घ ङ ॥ ३. महीरन्ध्रादि च ॥ ४. नाभिग० ग ॥ ५. ०व वियदिन्दीवरवत् । तस्मा० ख ग ॥ ६.०कल्पेऽपि घ ङ ॥ ७. ०नं विनक्ति ग० च ॥ ८. परं ताव० च ॥ ९. परिवादयन्ति घ ङ च ॥ १०. ०रस्ति नापि तालं पित्सति, नापि तालस्या० ग ॥ ११. ति ममोपरि तालं च ॥ १२. ०पगमजा० ङ॥ १३. ०ष्टिर्भेदाः ग घ ङ॥ १४. दा भवन्ति ते चा० ख ङ ॥ १५. जीवः को वेत्ति ? किं वा ग ॥ वि०टि० + "आतुर इति कुट्टि[?ष्टि] नो गरलमिश्रोदकपानं प्रगुणतावत्" जै०वि०प० ॥ क "अन्धकण्टक इति मृत्युपातप्रविष्टाक्षिकण्टकाकर्षणेन पटलनिर्गमवत्" जै०वि०प० ॥ ३४
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy