SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सहसन्मत्या ज्ञानम् [श्रु०१ । अ०१ । उ०१ । सू०२] जानीयाद्=अवगच्छेत्, इदमुक्तं भवति - न कश्चिद् अनादौ संसृतौ पर्यटन् असुमान् दिगागमनादिकं जानीयात् । यः पुनः जानीयात् स एवम् सह सम्मुइय त्ति । सहशब्दः सम्बन्धवाची, सद् इति प्रशंसायाम्, मतिः-ज्ञानम् । अयमत्र वाक्यार्थः– आत्मना सह सदा या सन्मतिर्वर्तते तया सन्मत्या कश्चित् जानीते । सहशब्दविशेषणात् च सदा आत्मस्वभावत्वं मतेरावेदितं भवति, न पुनः यथा वैशेषिकाणां व्यतिरिक्ता सती समवायवृत्त्या आत्मनि समवेता इति । यदि वा सम्मेइए त्ति स्वकीयया मत्या=स्वमत्या इति । तत्र भिन्नमपि अश्वादिकं स्वकीयं दृष्टं अतः सहशब्दविशेषणम् सहशब्दश्चासमस्त इति । सत्यपि चात्मनः सदा मतिसन्निधाने प्रबलज्ञानावरणावृतत्वाद् न सदा विशिष्टो अवबोध इति । सा पुनः सन्मतिः स्वमतिः वा अवधि-मनःपर्यायकेवलज्ञान-जातिस्मरणभेदात् चतुर्विधा ज्ञेया । तत्र अवधि - मन: पर्याय-केवलानां स्वरूपमन्यत्र विस्तरेण उक्तम्, जातिस्मरणं तु आभिनिबोधिकविशेषः । तदेवं चतुर्विधया मत्या आत्मनः कश्चिद् विशिष्टदिग्गत्या-ऽऽगती जानाति । कँश्चिच्च परः=तीर्थकृत् सर्वज्ञः, तस्यैव परमार्थतः परशब्दवाच्यत्वात् परत्वम्, तस्य तेन वा व्याकरणम्-उपदेशः, तेन जीवान् तद्भेदान् च पृथिव्यादीन् तद्गत्या -ऽऽगती च जानाति । अपरः पुनः अन्येषां तीर्थकरव्यतिरिक्तानां अतिशयज्ञानिनां अन्तिके श्रुत्वा जानातीति । यच्च जानाति तत् सूत्रावयवेन दर्शयति— तद्यथा- पूर्वस्या दिश आगतोऽहमस्मि एवं दक्षिणस्याः पश्चिमाया उत्तरस्या ऊर्द्धदिशो-ऽधोदिशोऽन्यतरस्या दिशोऽनुदिशो वा आगत अहमस्मीति एवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकरा - ऽन्यातिशयज्ञानिबोधितानां च ज्ञातं भवति । तथा प्रतिविशिष्टदिगागमनपरिज्ञानानन्तरं एषां एतदपि ज्ञातं भवति, यथा- अस्ति मे अस्य शरीरकस्य अधिष्ठाता ज्ञान- दर्शनोपयोगलक्षणः उपपादुकः भवान्तरसङ्क्रान्तिभाग् असर्वगतो भोक्ता मूर्तिरहितो अविनाशी शरीरमात्रव्यापी इत्यादि गुणवान् आत्मा इति । स च द्रव्य-कषाय-योगोपयोग - ज्ञान-दर्शन- चारित्र - वीर्यात्मभेदाद् अष्टधा । तत्र उपयोगात्मना बाहुल्येन इहाधिकारः । शेषाः तु तदंशतया उपयुज्यन्त इति उपन्यस्ताः । तथा अस्ति च मम आत्मा, यो अमुष्या दिशो अनुदिशश्च सकाशाद् अनुसञ्चरति गतिप्रायोग्य टि० १. सम्मइए त्ति ख विना । सम्मइय त्ति ग ॥ २. अत्र वा० ग ॥। ३. ०म्मईए त्ति च । ०म्मइयत्ति ख ॥ ४ ०श्चिच्च परतः परः ख । ०श्चित् परतः तीर्थ० ग ॥ ५. वा गतो वाऽऽगतो वाऽहम० ख ।। ६. ०तो वाऽह० घ ॥ ७. ज्ञानं ख ॥। ८. एतेषामे० ख । एतदपि ग । एषां तद० च ॥ ९. ज्ञानं ख च ॥ १० इति । तथा ख ॥ ३७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy