________________
षोडशधाऽनुभवनसञ्ज्ञा [श्रु०१। अ०१। उ०१। सू०१] तु स्वकृतकर्मोदयादिसमुत्था जन्तोः जायते ॥३८॥ सा च षोडशभेदा इति दर्शयति[नि०] आहार भय परिग्गह मेहुण सुह दुक्ख मोह वितिगिच्छा ।
कोह माण माय लोभे सोगे लोगे य धम्मोघे ॥३९॥ आहारेत्यादि । आहाराभिलाषः आहारसञ्जा, सा च तैजसशरीरनामकर्मोदयाद् असातोदयात् च भवति । भयसञ्ज्ञा त्रासरूपा । परिग्रहसञ्ज्ञा मूर्छारूपा । मैथुनसञ्ज्ञा स्त्र्यादिवेदोदयरूपा, एताः च मोहनीयोदयात् । सुख-दुःखसज्ञे साता-ऽसातानुभवरूपे वेदनीयोदयजे । मोहसञ्ज्ञा मिथ्यादर्शनरूपा मोहोदयात् । विचिकित्सासज्ञा चित्तविप्लुतिरूपा मोहोदयाद् ज्ञानावरणीयोदयात् च । क्रोधसञ्ज्ञा अप्रीतिरूपा । मानसञ्ज्ञा गर्वरूपा । मायासञ्ज्ञा वक्रतारूपा । लोभसञ्ज्ञा गृद्धिरूपा। शोकसञ्ज्ञा विप्रलापवैमनस्यरूपा । एता मोहोदयजाः । लोकसञ्ज्ञा स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा-न सन्ति अनपत्यस्य लोकाः, श्वानो यक्षाः, विप्रा देवाः, काकाः पितामहाः, बहिणां पक्षवातेन गर्भ इत्यादिका ज्ञानावरणक्षयोपशमाद् मोहोदयात् च भवति । धर्मसञ्जा५ ... क्षमाद्यासेवनरूपा मोहनीयक्षयोपशमाद् जायते । एताश्च अविशेषोपादानात् पञ्चेन्द्रियाणां सम्यग्दृशां मिथ्यादृशां च दृष्टव्याः । ओघसञ्ज्ञा तु अव्यक्तोपयोगरूपा वल्लीवितानाऽऽरोहणादिलिङ्गा ज्ञानावरणीयाल्पक्षयोपशमसमुत्था दृष्टव्या इति । इह पुनः ज्ञानसझया अधिकारः, यतः सूत्रे सैव निषिद्धा, इह एकेषां नो सञ्ज्ञा-ज्ञानं अवबोधो भवतीति ॥३९॥ प्रतिषिद्धज्ञानविशेषावगमार्थमाह सूत्रम्तं जहा- पुरत्थिमातो वा दिसातो आगतो अहमंसि, दाहिणाओ वा दिसाओ आगतो अहमंसि, पच्चत्थिमातो वा दिसातो आगतो अहमंसि, उत्तरातो वा दिसातो आगतो अहमंसि, उड्डातो वा दिसातो आगतो अहमंसि, अधेदिसातो वा आगतो अहमंसि, अन्नतरीतो दिसातो वा अणुदिसातो वा आगतो अहमंसि, एवमेगेसिं णो णातं भवति ।
तं जहेत्यादि णो णायं भवतीति यावत् । तद्यथा इति प्रतिज्ञातार्थोदाहरणम् । पुरथिमाउ त्ति प्राकृतशैल्या मागधदेशीभाषानुवृत्त्या पूर्वस्या दिशो अभिधायकात् पुरत्थिमाशब्दात् पञ्चम्यन्तात् तसा निर्देशः । वाशब्द उत्तरपक्षापेक्षया विकल्पार्थः, यथा
टि० १. आधार छ । २. कोह माण माया लोभे क झ ॥ ३. धम्मोहे कप्रतिमृते ।। ४. वक्ररूपा ख । ५. इत्येवमादिका ग ङ ॥ ६. ०रणीयक्षयो० ख । ०रणीयाल्पक्षयो० घ ङ ।। ७. सम्यग-मिथ्यादृशां द्र० ग च विना ॥ ८. ०ज्ञा अव्य० ख ॥ ९.०दिरूपा घ ङ॥ १०. ०धानात् क ॥
२३