________________
[श्रु०१। अ०१ । उ०१ । नि०३८]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
नोशब्देन प्रतिषेध: ? इति । अत्र प्रत्यवस्था - सत्यमेवम्, किन्तु प्रेक्षापूर्वकारितया नोशब्दोपादानम्, सा चेयम्- अन्येन प्रतिषेधै सर्वनिषेधः स्यात्, यथा- 'न घट:- अघटः' इति चोक्ते सर्वात्मना घटनिषेधः । स च नेष्यते, यतः प्रज्ञापनायां दश सञ्ज्ञाः सर्वप्राणिनां अभिहिताः तासां सर्वासां प्रतिषेधः प्राप्नोतीति कृत्वा । ताश्चेमा:
" कइ णं भंते ! सन्नाओ पन्नत्ताओ ? गोयमा ! दस सन्नाओ पन्नत्ताओ, तं जहा - आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना कोहसन्ना माणसन्ना मायासन्ना लोहसन्ना ओहसन्ना लोगसन्न [ स्था०सू०१० / ७५२, प्रज्ञा०सू० ८ / ७२५]ति ।
आसां च प्रतिषेधे स्पष्टो दोष:, अतो नोशब्देन प्रतिषेधनमकारि । यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथा हि- नोघट इत्युक्ते घटाभावमात्रं प्रतीयते, अर्थप्रकरणादिप्रसक्तनिषेधेन चाप्रसक्तस्य विधानम्, स पुनर्विधीयमानः प्रतिषेध्यावयवो ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयते, तथा चोक्तम्—
"प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः । स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्यात् ॥" [
] इति ।
एवमिहापि न सर्वसञ्ज्ञानिषेधः अपि तु विशिष्टसञ्ज्ञानिषेध:, यया आत्मादिपदार्थस्वरूपं गत्या - ऽऽगत्यादिकं ज्ञायते तस्या निषेध इति ।
[ नि० ]
साम्प्रतं निर्युक्तिकृत् सूत्रावयवनिक्षेपार्थमाह—
दव्वे इत्यादि । सञ्ज्ञा नामादिभेदात् चतुर्धा । नाम - स्थापने क्षुण्णे । ज्ञशरीरभव्यशरीरव्यतिरिक्ता सचित्ता - ऽचित्त - मिश्रभेदात् त्रिधा । सचित्तेन हस्तादिद्रव्येण पानभोजनादिसञ्ज्ञा, अचित्तेन ध्वजादिना, मिश्रेण प्रदीपादिना सञ्ज्ञानं-सञ्ज्ञा अवगम इति कृत्वा ।
५.
दव्वे सच्चित्ताई भावे अणुभवण जाणणा सन्ना । मइ होइ जाणणा पुण अणुभवणा कम्मसंजुत्ता ॥३८॥
भावसञ्ज्ञा पुनः द्विधा- अनुभवनसञ्ज्ञा ज्ञानसञ्ज्ञा च । तत्र अल्पव्याख्येयत्वात् तावद् ज्ञानसञ्ज्ञां दर्शयति- मइ होइ जाणणा पुण त्ति मननं = मतिः अवबोधः । सा च मतिज्ञानादिपञ्चधा । तत्र केवलसञ्ज्ञा क्षायिकी, शेषास्तु क्षायोपशमिक्यः । अनुभवनसञ्ज्ञा
२२
टि० १. अन्यप्रति० ख ॥ २. ०धेन स० ग ङ च ॥ ३. इति घटा० ख ॥ ४ ०ते इति तथा ग ॥
०र-तद्व्यति० क ॥। ६ त्वाद् ज्ञान० ख ॥ ७ ० नादिः प० ख ग ॥
वि०टि० = "प्रसक्तमर्थं च इति शब्दात् प्रसक्तनिषेधेनाऽप्रसक्तविधानमाह" जै०वि०प० ॥