SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ एकेषां सञ्ज्ञाभावः [श्रु०१। अ०१। उ०१। सू०१] साम्प्रतं सूत्रानुगमे अस्खलितादिगुणलक्षणोपेतं सूत्रमुच्चारणीयम्, लक्षणं त्विदम् "अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं ॥" [आव०नि०८८०, बृ०क०भा०-२७७ ] इत्यादि । तच्चेदं सूत्रम्[सू०] सुयं मे आउसं ! तेणं भगवया एवमक्खायं- इहमेगेसिं नो सन्ना भवति । सुयं मे आउसं ! तेणं भगवया एवमक्खायं- इहमेगेसिं नो सन्ना भवति । अस्य संहितादिक्रमेण व्याख्या- संहिता उच्चारितैव । पदच्छेदः तु अयम्- श्रुतं मया आयुष्मन्, तेन भगवता एवं आख्यातम्- इह एकेषां नो सञ्ज्ञा भवति । एकं तिङन्तम्, शेषाणि सुबन्तानि । गेतः सपदच्छेदः सूत्रानुगमः । साम्प्रतं सूत्रपदार्थः समुन्नीयते- भगवान् सुधर्मस्वामी जम्बूनाम्न इदमाचष्टे यथाश्रुतम् आकणितं अर्वगतं अवधारितमिति यावद्, अनेन स्वमनीषिकाव्युदासः । मया इति साक्षात्, न पुनः पारम्पर्येण । आयुष्मन् इति जात्यादिगुणसम्भवे अपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुः अविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात् । इह आचारस्य व्याचिख्यासितत्वात् तदर्थस्य च तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितं तेन इति तीर्थकरमाह । यदि वा आमृशता भगवत्पादारविन्दमिति, अनेन विनय आवेदितो भवति । आवसता वा तदन्तिक इति, अनेन तु गुरुकुलवासः कर्तव्य इति आवेदितं भवेति । एतच्च अर्थद्वयं आमुसंतेण आवसंतेण इति एतत्पाठान्तरं आश्रित्य अवगन्तव्यमिति । भगवता इति भगः ऐश्वर्यादिषडर्थात्मकः, सः अस्य अस्ति इति भगवान्, तेन । एवम् इति वक्ष्यमाणविधिना आख्यातमिति अनेन कृतकत्वव्युदासेन अर्थरूपतया आगमस्य नित्यत्वमाह । इह इति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमिति सम्बन्धः । यदि वा इह इति संसारे, एकेषां ज्ञानावरणीयावृतानां प्राणिनां नो सञ्ज्ञा भवति, सञ्ज्ञानं सञ्ज्ञा स्मृति अवबोध इति अनर्थान्तरम्, सा नो जायत इत्यर्थः । उक्तः पदार्थः । पदविग्रहस्य तु सामासिकपदाभावाद् अप्रकटनम् । इदानीं चालना- ननु च अकारादिकप्रतिषेधकलघुशब्दसम्भवे सति किमर्थं टि० १. गतश्च पदच्छेदः । साम्प्र० ख ॥ २. ०वधारि० ख ॥ ३. ०युष्मत्त्वगु० ग घ ङ । ४. अथवा ख ।। ५. ०ति । इत्येतच्चा० ख ॥ ६. ०ति अनेन वक्ष्य० ख ॥ ७. ०नागमस्यार्थरूपतया नित्यत्वमित्यर्थः । इह ख ॥ ८. नोपजायत च ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy