________________
[श्रु०१। अ०१। उ०१। नि०३६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [नि०] दव्वं सत्थग्गिविसन्नेहंबिलखारलोणमादीयं ।
__ भावो उ दुप्पउत्तो वाया काओ अविरई य ॥३६॥ दव्वमित्यादि । शस्त्रस्य निक्षेपो नामादिः चतुर्धा । व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्नि-विष-स्नेहा-ऽम्ल-क्षार-लवणादिकम् । भावशस्त्रं तु दुष्प्रयुक्तो भावः =अन्तकरणं तथा वाक्-कायौ अविरतिश्च इति जीवोपघातकारित्वादिति भावः ॥३६।।
परिज्ञापि चतुर्धा इत्याह[नि०] दव्वं जाणण पच्चक्खाणे भविए सरीर उवगरणे ।
भावपरिण्णा जाणण पच्चक्खाणे य भावेणं ॥३७॥ दव्वमित्यादि । तत्र द्रव्यपरिज्ञा द्विधा- ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च । ज्ञपरिज्ञा आगम-नोआगमभेदाद् द्विधा । आगमतो ज्ञाता अनुपयुक्तः । नोआगमत: त्रिधा । तत्र व्यतिरिक्ता द्रव्यज्ञपरिज्ञा यो यद् द्रव्यं जानीते सचित्तादि सा परिच्छेद्यद्रव्यप्राधान्याद् द्रव्यज्ञपरिज्ञा इति । प्रत्याख्यानपरिज्ञाऽपि एवमेव । तत्र व्यतिरिक्ता द्रव्यप्रत्याख्यानपरिज्ञा देहोपकरणपरिज्ञानम्, उपकरणं च रजोहरणादि, साधकतमत्वात् । भावपरिज्ञाऽपि द्विधैवज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च। (तत्र भावज्ञपरिज्ञा आगम-नोआगमभेदाद् द्विधा ।) तत्र आगमतो ज्ञाता उपयुक्तश्च । नोआगमतः तु इदमेव अध्ययनं ज्ञान-क्रियारूपम्, नोशब्दस्य मिश्रवाचित्वात् । प्रत्याख्यानभावपरिज्ञाऽपि तथैव। आगमतः पूर्ववत् । नोआगमतस्तु प्राणातिपातनिवृत्तिरूपा मनो-वाक्-कायकृत-कारिता-ऽनुमतिभेदात्मिका ज्ञेया इति ॥३७||
गतो नामनिष्पन्नो निक्षेपः । साम्प्रतं आचारादिप्रदानस्य सुखप्रतिपत्तये दृष्टान्तोपन्यासेन विधिः आख्यायते यथा- कश्चिद् राजा अभिनवनगरनिवेशेच्छया भूखण्डानि विभज्य समतया प्रकृतिभ्यो दत्तवान् तथा कचवरापनयने शल्योद्धारे भूमिस्थिरीकरणे पक्वेष्टकापीठप्रासादरचने रत्नाद्युपादाने चोपदेशं च दत्तवान् । ताश्च प्रकृतयः तदुपदेशद्वारेण तथैव कृत्वा यथाभिप्रेतान् भोगान् बुभुजिरे । अयमत्र अर्थोपनयः- राजसदृशेन सूरिणा प्रकृतिसदृशस्य शिष्यगणस्य भूखण्डसदृश: संयमो मिथ्यात्वकचवराद्यपनीय सर्वोपधाशुद्धस्य आरोपणीयः, तं च सामायिकसंयमं स्थिरीकृत्य पक्वेष्टकापीठतुल्यानि व्रतानि आरोपणीयानि, ततः प्रासादकल्पोऽयमाचारो विधेयः । तत्रस्थश्च शेषशास्त्रादिरत्नानि आदत्ते निर्वाणभाग् भवति ।
टि० १. ०विसंनेहंबिललोणखारमा० ज ।। २. ०न्नेहिंबि० ख झ ॥३. य ठ ।। ४. ०याविर० ख ग ।। ५. दविए ख ज ठ ।। ६. ०क्खाणं च भा० कप्रतेविना ।। ७. ०व्यज्ञानपरि० ग घ ङच ।। ८. ०न्याद् द्रव्यपरि० कादर्शमृते॥९. देह उप० ख ग च॥ १०.०तश्चेदमेवा० ख॥११. भूस्थिरी० कपुस्तकं विना ॥ १२.०देशानुसारेण ग॥ १३.०शास्त्ररत्ना० ख॥
२०