________________
उद्देशार्थाधिकारः [श्रु०१। अ०१। उ०१। नि०३५] लोकविजये तु 'लोगो जह बज्झइ जह य तं पयहियव्वं' ति विजितभावलोकेन संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा, यथा च तत् प्रहातव्यं तथा ज्ञातव्यमिति अयं अर्थाधिकारः २ । तृतीये तु अयम्- संयमस्थितेन जितकषायेण अनुकूल-प्रतिकूलोपसर्गनिपातेषु सुख-दुःखतितिक्षा विधेया इति ३ । चतुर्थे तु अयम्प्राक्तनाध्ययनार्थसम्पन्नेन तापसादिकष्टतप:सेविनां अष्टगुणैश्वर्यं उद्वीक्ष्यापि दृढसम्यक्त्वेन भवितव्यमिति ४ । पञ्चमे तु अयम्- चतुरध्ययनार्थस्थितेन असारपरित्यागेन लोकसाररत्नत्रययुक्तेन भाव्यमिति ५ ।
षष्ठे तु अयम्- प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेन अप्रतिबद्धेने भाव्यमिति ६ । सप्तमे तु अयम्- संयमादिगुणयुक्तस्य कदाचित् मोहसमुत्थाः परीषहा उपसर्गा वा प्रादुर्भवेयुः ते सम्यक् सोढव्याः ७ । अष्टमे तु अयम्-निर्याणम् अन्तक्रिया, सा सर्वगुणसंयुक्तेन सम्यग् विधेया इति ८ । नवमे तु अयम्- अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्धमानस्वामिना विहित इति, तत्प्रतिपादनं च शेषसाधूनां उत्साहार्थम्, तदुक्तम्
"तित्थयरो चउणाणी सुरमहिओ सिज्झियव्व य धुयम्मि । अणिगूहियबलविरिओ सव्वत्थामेसु उज्जमइ ॥ किं पुण अवसेसेहि य दुक्खक्खयकारणा सुविहिएहिं । होइ ण उज्जमियव्वं सपच्चवायम्मि माणुस्से ? ॥"
__ [आचा०नि०२७८-७९] ॥३३-३४॥ ___ साम्प्रतं उद्देशार्थाधिकारः शस्त्रपरिज्ञाया अयम्[नि०] जीवो छक्कायपरूवणा य तेसिं वहे य बंधो त्ति ।
विरईए अहिगारो सत्थपरिणाए कायव्वो ॥३५॥ जीवो इत्यादि । तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्यम् । शेषेषु तु षट्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति । सर्वेषां च अवसाने बन्ध-विरतिप्रतिपादनमिति; एतच्च अन्ते उपात्तत्वात् प्रत्येकं उद्देशार्थेषु योजनीयम्; प्रथमोद्देशके जीवः, तद्वधे बन्धः, विरतिश्च इत्येवमिति ॥३५॥
तत्र शस्त्र-परिज्ञा इति द्विपदं नाम, शस्त्रस्य निक्षेपमाह
___ टि० १. ०पाते सु० कपुस्तकं विना ॥ २. त्रयोद्युक्तेन क-खआदी विना ॥ ३. ०न भवितव्यम् कप्रतिमृते ॥ ४. निर्वाणम् क ख ।। ५. ०गुणेन सम्य० ख । ०गुणयु० ग घ ङ च ॥ ६. ०यनेन प्र० च ॥ ७. गेव व० घ ङ॥ ८. तत्प्रदर्शनं ग ॥ ९. ०नं चाशेष० च ॥ १०. धुतम्मि ग घ ङ॥ ११. ०सेहिं दु० कपुस्तकमृते ॥ १२. वहेण ब० क-ठपुस्तके विना ॥ १३. ०ण्णाय का० ख ॥ १४. शस्त्रनि० क ॥
१९