________________
[श्रु०१। अ०१। उ०१। नि०३०] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [नि०] भावे गेइ आहारे गुणे गुणवओ पसत्थ अपसत्था ।
गुणचरणेण पसत्थेण बंभचेरा णव हवंति ॥३०॥ भावे इत्यादि । भावचरणं अपि गत्याहारगुणभेदात् त्रिधा । तत्र गतिचरणं साधोः उपयुक्तस्य युगमात्रदृष्टेः गच्छतः । भक्षणचरणमपि शुद्धपिण्डं उपभुञ्जानस्य। गुणचरणं अप्रशस्तं मिथ्यादृष्टीनाम्, सम्यग्दृष्टीनामपि सनिदानम् । प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थं मूलोत्तरगुणकलापविषयम् । इह च अनेनैव अधिकारः, यतो नवापि अध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थं अनुशील्यन्ते ॥३०॥
__एतेषां च अन्वर्थाभिधानानि दर्शयितुमाह[नि०] सत्थपरिण्णा लोगविजओ य सीओसणिज्ज सम्मत्तं ।
तह लोगसारणामं धुयं तैहा महपरिन्ना य ॥३१॥ [नि०] अट्ठमए य विमोक्खो उवहाणसुयं च नवमग होइ ।
इय एसो आयारो आयारग्गाणि सेसाणि ॥३२॥ सत्थेत्यादि, अट्ठमए इत्यादि । स्पष्टे, केवलं इति एष नव अध्ययनरूप आचारः, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणि आचाराग्राणीति ॥३१-३२॥
साम्प्रतं उपक्रमान्तर्गतः अर्थाधिकारो द्वेधा- अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च । तत्राद्यमाह[नि०] जियसंजमो य लोगो जह बज्झइ जह य त पयहियव्वं ।
सुह-दुक्खतितिक्खा वि य सम्मत्तं लोगसारो ये ॥३३॥ [नि०] निस्संगया य छठे मोहसमुत्था परीसहुवसग्गा ।
निज्जाणं अट्ठमए नवमे य जिणेण एवं ति ॥३४॥ दारं ॥ जिय० इत्यादि, निस्संगेत्यादि । तत्र शस्त्रपरिज्ञायां अयं अर्थाधिकार:जियसंजमो त्ति जीवेषु संयमो = जीवसंयमः, तेषु हिंसादिपरिहारः । स च जीवास्तित्वपरिज्ञाने सति भवति, अतो जीवास्तित्व-विरतिप्रतिपादनं अत्र अर्थाधिकारः १ ।
गुणा गुण० कादर्श विना ।। २. ०त्थमप० कप्रतिमते ॥ ३.०चेरे ण. झ ॥ ४. ०त्रदत्तदृष्टे० ग ङ ।। ५. शुद्धं पि० घ ङ ॥ ६. तह महाप० ख ज झ ठ ॥ ७. ०मव[?ओ] य छ । ८. गं भणियं । इच्चेसे ख ज झ ठ। गं भणियं । इय ज ॥ ९. ईएसो छ । १०. तं विजहि० क ब ठ । तं पजहि० ख । तं पइहि० ज झ ॥ ११. उ क। १२. णिव्वाणं ख ज ब ठ विना ॥ १३. जिणाणए बेंति क । जिणाण ॥ १४. एयं ति ख ज झ ॥
१८