SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ वर्ण-वर्णान्तरोत्पत्तिः एक्का मणुस्सजाई रज्जुप्पत्ती दो कया उस । तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि ॥१९॥ [श्रु०१। अ०१ । उ०१ । नि०२२] [नि० ] एक्का इत्यादि । यावद् नाभेयो भगवान् नाद्यापि रोजलक्ष्मीं अध्यास्ते तावद् एकैव मनुष्यजातिः । तस्यैव राज्योत्पत्तौ भगवन्तमेव आश्रित्य ये स्थिताः ते क्षत्रियाः, शेषाश्च शोचनाद् रोदनाच्च शूद्राः । पुनः अग्न्युत्पत्तौ अयस्कारादिशिल्पवाणिज्यवृत्त्या वेशनाद् वैश्याः । भगवतो ज्ञानोत्पत्तौ भरतकाकणीलाञ्छनात् श्रावका एव ब्राह्मणा जज्ञिरे, एते शुद्धाः, त्रयश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते ॥१९॥ [ नि० ] साम्प्रतं वर्ण-वर्णान्तरनिष्पन्नं सङ्ख्यानमाह संजोगे सोलसगं सत्त य वन्ना उ नव य अंतरिणो । एए दो वि विगप्पा ठवणाबंभस्स नायव्वा ॥२०॥ संजोगे इत्यादि । संयोगेन षोडश वर्णाः समुत्पन्नाः । तत्र सप्त वर्णाः, नव तु वर्णान्तराणि । एतच्च वर्ण-वर्णान्तरविकल्पद्वयं स्थापनाब्रह्म इति ज्ञातव्यम् ||२०|| साम्प्रतं पूर्वसूचितं वर्णत्रयमाह, यदि वा प्रागुद्दिष्टान् सप्त वर्णानाह— [ नि० ] पगई चउक्कगाणंतरे य ते होंति सत्वन्ना 'उ | आणंतरेसु चरिमो वण्णो खलु होइ नायव्व ॥२१॥ पगई इत्यादि । प्रकृतयः चतस्रः ब्राह्मण-क्षत्रिय - वैश्य-शूद्राख्याः । आसामेव चतसृणां अनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः, तद्यथा— द्विजेन क्षत्रिययोषितो जातः प्रधानक्षत्रियः सङ्करक्षत्रियो वा । एवं क्षत्रियेण वैश्ययोषितः, वैश्येन शूद्रयाः प्रधानसङ्करभेदौ वक्तव्यौ इति एवं सप्त वर्णा भवन्ति । अनन्तरेषु योगेषु भवः = आनन्तराः, तेषु चरमवर्णव्यपदेशो भवति - ब्राह्मणेन क्षत्रियायाः क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो भवतीति भावः ॥ २१ ॥ इदानीं वर्णान्तराणां नवानां नामानि आह . १४ [ नि० ] अंबट्टुग्गणिसाया अजोगवं मागहा य सूया य । खेत्ता वेदेहा विय चंडाला नवमगा होंति ॥२२॥ टि० १. ०त्तीइ दो ख ठ ।। २. राज्यल० क ॥। ३. ०नात् शू० क ॥ ४. शुद्धास्त्रयः वर्णा अन्ये ख ॥ ५. दोणि विग० ञ । ६. संयोगात् षोडश वर्णाः । तत्र ख ।। ७. नव वर्णा० ख च ॥ ८. o गतिय च० ञ ॥ ९ ०त्त नायव्वा ॥ ख ॥ १०. यञ ॥ ११. ०तरे उ च० क छ ञ । ०तरिओ च० झ ।। १२. ०तस्त्रोऽपि ब्रा० ग घ ङ ॥ १३. ०वा अन० ख ॥ १४. ०बट्टग्ग० छ । १५. खत्ता य विदेहा ख । खत्त वइदेहा छ । खत्ता च विदेहा झ । खत्ता वतिदेहा ञ ॥ १५
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy