________________
[श्रु०१ । अ०१ । उ०१ । नि०१६ ] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
ऽप्रज्ञापनीयपर्यायाणां अपि तंत्र प्रक्षेपाद् बहुत्वम्, एवमपि ज्ञान - ज्ञेययोः तुल्यत्वात् तुल्या एव न अनन्तगुणा इति ।
अत्र आचार्या आहुः- या॒ऽसौ संयमस्थानश्रेणिः निरूपिता सा सर्वा चारित्रपर्यायैः ज्ञान-दर्शनपर्यायसहितैः परिपूर्णा तत्प्रमाणा सर्वाकाशप्रदेशानन्तगुणा, इह पुनः चारित्रमात्रोपयोगित्वात् पर्यायानन्तभागवृत्तित्वं इत्यदोषः ソ
इदानीं सारद्वारम्— कः कस्य सारः ? इत्याह
[ नि० ]
अंगाणं किं सारो? आयारो, तैस्स किं हवइ सारो ? | अणुओगत्थो सारो, तस्स वि य परूवणा सारो ॥१६॥
अंगाणमित्यादि । स्पष्टा, केवलं अनुयोगार्थः-व्याख्यानैभूतोऽर्थः, तस्य प्ररूपणा येथास्वं विनियोग इति ॥१६॥ अन्यच्च
[नि० ] सारो परूवणाए चरणं तैस्स वि य होइ निव्वाणं । निव्वाणस्स उँ सारो अव्वाबाहं जिणा बेंति ॥१७॥ दारं ॥ सारो इत्यादि । स्पष्ट ॥१७॥
इदानीं श्रुत-स्कन्धपदयोः नामादिनिक्षेपादिकं पूर्ववद् विधेयम्, भावेन च इह अधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्म - चरणशब्दौ निक्षेप्तव्य इत्याह[ नि० ] भfम्म[ ?म्मी ] 3 चक्कं ठवणाए होइ बंभणुप्पत्ती । सत्तण्ह य वण्णाणं नवण्ह वण्णंतराणं च ॥१८॥
बंभम्मीत्यादि । तत्र ब्रह्म नामादि चतुर्धा । ' तत्र नामब्रह्म ब्रह्म इति अभिधानम् । असद्भावस्थापना अक्षादौ, सद्भावस्थापना प्रतिविशिष्टयज्ञोपवीताद्याकृतिमल्लेप्यादौ द्रव्ये, अथवा स्थापनायां व्याख्यायमानायां ब्राह्मणोत्पत्तिः वक्तव्या, तत्प्रसङ्गेन च सप्तानों वर्णानां नवानां च वर्णान्तराणां उत्पत्तिः भणनीया इति ॥ १८ ॥ यथाप्रतिज्ञातमाह
टि० १. ० चार्य आह-या० ग ॥। २. ०र्णा तावत्प्र० ख ॥ ३ तत्थ किं ख । तत्थ हवइ किं सारो ठ ।। ४. ०नरूपोऽर्थः खप्रतौ प्रत्यन्तरम् ॥ ५. यथास्थं ग च ॥ ६ तस्सेव य होइ ख ।। ७. य ञ ।। ८. स्पष्टैव इ० ग घ ङ च ॥ ९. बंभम्मि ज ॥ १०. य ठ ।। ११. तत्तु नाम ब्रह्मेत्य० घ ङ । तत्र नाम ब्रह्मेत्य ख ॥। १२. ०व्या ब्राह्मणोत्पत्तिप्रस० घ ङ ॥ १३. ०नां च व० घ च ॥
१४
वि०टि० “तत्र इति प्रज्ञापनीयपर्यायेषु, न हि ज्ञानमन्तरेण चारित्रं भवतीति आह ज्ञान - ज्ञेययोरित्यादि, कथमुक्तं निर्युक्तिकृता सव्वेसिं पज्जवाणमित्यादि इति पराभिप्रायः " जै०वि०प० ॥ " तत्प्रमाणा इति प्रज्ञापनीयाऽप्रज्ञापनीयपर्यायप्रमाणा" जै०वि०प० ॥ = " चारित्रमात्र इति सर्वेषां ज्ञान दर्शनपर्यायाणामपेक्षया चारित्रपर्यायाणामनन्तभागत्वम्, , तेन यदुक्तं निर्युक्तिकृता तद् घटत एव" जै०वि०प० ॥