________________
[श्रु०१। अ०१। उ०१। नि०११] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् आद्यं प्रधानं वा गणिस्थानमिति ॥१०॥
इदानीं परिमाणम्- किं पुनः अस्य अध्ययनतः पदतः च परिमाणम् ? इति अत आह[नि०] नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ।।
__ हवइ य सपंचचूलो बहु-बहुतरओ पयग्गेणं ॥११॥ दारं ॥
नवेत्यादि । तत्र अध्ययनतो नवब्रह्मचर्याभिधानाध्ययनात्मकोऽयम्, पदतोऽष्टादशपदसहस्रात्मकः, वेद इति विदन्ति अस्माद् हेयोपादेयपदार्थान् इति वेदः, क्षायोपशमिकभाववर्ती अयं आचार इति । सह पञ्चभिः चूडाभिः वर्तत इति सपञ्चचूडः भवति । उक्तशेषानुवादिनी चूडा । तत्र प्रथमा"पिंडेसण सेज्जिरिया भासज्जाया य वत्थपाएसा । उग्गहपडिम"
[आव०संग्रहणि ४७] त्ति सप्ताध्ययनात्मिका, द्वितीया सत्तसत्तिक्कया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनम् । बहु-बहुतरओ पदग्गेणं ति तत्र चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाद् बहुः, निशीथाध्ययनपञ्चमचूलिकाप्रक्षेपाद् बहुतरः, अनन्तगमपर्यायात्मकतया बहुतमश्च, पदाग्रेण-पदपरिमाणेन भवतीति ॥११॥
___ इदानीं उपक्र मान्तर्गतं समवतारद्वारम्-तत्रैताश्चूडा नवसु ब्रह्मचर्याध्ययनेषु अवतरन्तीति दर्शयितुमाह[नि०] आयारग्गाणत्थो बंभच्चेरेसु सो समोयरइ ।
सो वि य सत्थपरिणाए पिंडियत्थो समोयरड् ॥१२॥ [नि०] सत्थपरिणाअत्थो छस्सु वि काएसु सो समोयरइ ।
छज्जीवणियाअत्थो पंचसु वि वएसु ओयरइ ॥१३॥ [नि०] पंच य महव्वयाइं समोयरंत उ सव्वदव्वेस ।
सव्वेसि पज्जवाणं अणंतभागम्मि उ अइंति ॥१४॥ आयारेत्यादि, सत्थेत्यादि, पंचेत्यादि । उत्तानार्थाः, नवरं आचाराग्राणि = चूलिकाः, द्रव्याणि धर्मास्तिकायादीनि, पर्यायाः अगुरुलघ्वादयः तेषां अनन्तभागे व्रतानां अवतार इति ॥१२-१४॥ कथं पुनः महाव्रतानां सर्वद्रव्येषु अवतारः ? इति तदाह
टि० १. यम्, अष्टाद० ख ॥ २. ०श्मूलाभि० च ॥ ३. ०चूलश्च च ॥ ४. भासा वत्थेसणा य पाएसा ग विना ।। ५. ०हुययरो पद० कपुस्तकं विना ।। ६.०कविवक्षया ब० ग ङ॥ ७. ०दप्रमा० ग ङ।। ८. नवब्र० ख ॥ ९. ०वनिकायस्थो त्र॥ १०. ०ते य स० ख ठ॥ ११. उयइंति ख । उयरंति ठ॥
१२