________________
[श्रु०१। अ०१। उ०१। नि०७] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् रजतादिः । भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादक: च अयमेव ग्रन्थः, निर्जरादिरत्नानामत्र लाभात् ।
इदानीं आश्वासः- आश्वसन्ति अस्मिन् इति आश्वासः, नामादिः । तत्र व्यतिरिक्तो यानपात्र-द्वीपादिः । भावाश्वासो ज्ञानादिरेव ।
इदानीं आदर्श:- आदृश्यते अस्मिन् इति आदर्शः, नामादिः । व्यतिरिक्तो दर्पणः । भावादर्श उक्त एव, यतः अस्मिन् इतिकर्तव्यता दृश्यते ।
इदानीं अङ्गम्- अज्यते = व्यक्तीक्रियते अस्मिन् इति अङ्गम्, नामाद्येव । तत्र व्यतिरिक्तं शिरो-बाह्यादि । भावाङ्गं अयमेव आचारः ।
इदानीं आचीर्णम्- आचीर्णम् आसेवितम् । तच्च नामादि षोढा । तत्र व्यतिरिक्तं द्रव्याचीर्ण सिंहादेः तृणादिपरिहारेण पिशितभक्षणम् । क्षेत्राचीर्णं वाल्हीकेषु सक्तवः, कोङ्कणेषु पेया । कालाचीर्णं त्विदम्
"सरसो चंदणपंको अग्घति सरसा य गंधकासायी । पाडल-सिरीस-मल्लिय पियाइँ काले निदाहम्मि ॥" [ भावाचीर्णं तु ज्ञानादिपञ्चकम्, तत्प्रतिपादकः च आचारग्रन्थः ।
इदानीं आजातिः- आजायन्ते तस्यां इति आजातिः । साऽपि चतुर्धा । व्यतिरिक्ता मनुष्यादिजातिः। भावाजातिस्तु ज्ञानाद्याचारप्रसूतिः अयमेव ग्रन्थ इति ।
इदानीं आमोक्षः- आमुच्यन्ते अस्मिन् इति आमोक्षणं वा आमोक्षः, नामादिः । तत्र व्यतिरिक्तो निगडादेः। भावामोक्षः कर्माष्टकोद्वेष्टनमशेषम्, एतत्साधकः च अयमेव आचार इति ।
एते किञ्चिद् विशेषाद् एकमेवार्थं विशिषन्तः प्रवर्तन्त इति एकार्थिकाः शक्रपुरन्दरादिवत्, एकार्थाभिधायिनां च छन्दश्चिति-बन्धानुलोम्यादिप्रतिपत्त्यर्थं उद्घट्टनम् । उक्तं च
"बंधाणुलोमया खलु सत्थम्मि य लाघवं असम्मोहो ।
टि० १. आदर्श्यते ख ॥ २. ०ई समए नि० ख ॥ ३. न्ते तस्मि० ग ॥ ४. ०नां तु छ० ख । नां छ० च ॥ ५. ०लोमादि० ख ।
वि०टि० 0 एतवृत्तिस्तु एवम्—एकार्थिकाभिधाने यान्यर्थपदानि गाथादिभिः बद्ध[?बन्धु]मिष्यन्ते तेषां बन्धे अनुलोमता भवति, अननुकूलाभिधानपरिहारेण अनुकूलाभिधाने बन्धो भवतीत्यर्थः । अनुकूलेन