SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ पञ्चविधाचारः [श्रु०१। अ०१। उ०१। नि०७] दर्शनाचारोऽपि अष्टधैव, तद्यथा"निस्संकिय निक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी य । उववूह थिरीकरणे वच्छल्ल पभावणे अट्ठ ॥" [आव०नि०१५७५,दशवै०नि०१८२, निशी०भा०२३, व्यव०भा०६४] चारित्राचारोऽपि अष्टधैव तिण्णेव य गुत्तीओ पंच य समियाओ अट्ठ मिलियाओ । पवयणमायाउ इमा तासु ठिओ चरणसंपन्नो ॥ [ तपआचारो द्वादशधा, तद्यथा "अणसणमूणोदरिया वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अभितरओ तवो होइ ॥" [दशवै०नि०४७-४८ ] वीर्याचारस्तु अनेकधा"अणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो । झुंजइ य जहाथाम नायव्वो वीरियायारो ॥" [ दशवै०नि०१८७, निशी०भा०४३] एष पञ्चविध आचारः । एतत्प्रतिपादकः च अयमेव ग्रन्थविशेषो भावाचारः। एवं सर्वत्र योज्यः । इदानीं आचाल:- आचाल्यतेऽनेन निबिडं कर्मादीति आचालः । सोऽपि चतुर्धा । व्यतिरिक्तो वायुः । भावाचालः तु अयमेव ज्ञानादिः पञ्चधा । ___ इदानीं आगाल:- आगालनम् आगालः, समप्रदेशाद्यवस्थानम् । सोऽपि चतुर्धा । व्यतिरिक्त उदकादेः निम्नप्रदेशाद्यवस्थानम् । भावागालो ज्ञानादिक एव, तस्यात्मनि । रागादिरहिते अवस्थाननिमित्तत्वात् ।। इदानीं आकर:- आगत्य तस्मिन् कुर्वन्तीति आकरः, नामादिः । तत्र व्यतिरिक्तो टि० १. ०मिईओ ग च ॥ २. ०माईउ ख घ ङ । ०मातीउ च ॥ ३. ०धा-अण० ख ॥ ४. ०रः, तत्प्र० ख ॥ ५. नेनातिनिबि० च । नेनेति निबि० ख ग ॥ ६. आगलन० ग घ ङ ।। ७. ०शावस्था० ख ग ॥ ८. ०शावस्था० घ ङ च विना ॥ ९. तस्मादात्मनि ग ॥ १०. ०नमिति कृत्वा इ० कप्रति विना ॥ वि०टि० "व्यतिरिक्तो वायुः इति ज्ञशरीर-भव्यशरीरयोः" जै०वि०प० ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy