________________
६
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
कइ संतरमविरहियं भवागरिस फासणनिरुत्ती ॥"
[ आव०नि०१४० - ४१, विशेषाव० भा०१४८४-८५] सूत्रस्पर्शिकनिर्युक्त्यनुगमः सूत्रावयवानां नयैः साक्षेप - परिहारं अर्थकथनम् । स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे । स च सूत्रोच्चारणरूपः पदच्छेदरूपश्चेति ।
अनन्तधर्माध्यासितं वस्तु एकेनैव धर्मेण नयन्ति = परिच्छिन्दन्तीति ज्ञानविशेषा नयाः, च नैगमादयः सप्तेति ।
साम्प्रतं आचाराङ्गस्य उपक्रमादीनां अनुयोगद्वाराणां यथायोगं किञ्चिद् बिभणिषुः अशेषप्रत्यू होपशमनाय मङ्गलार्थं प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थं सम्बन्धा -ऽभिधेयप्रयोजनप्रतिपादिकां निर्युक्तिकारो गाथामाह—
[ नि० ]
[श्रु०१ | अ०१ । उ०१ । नि०१]
वंदित्तु सव्वसिद्धे जिणे य अणुओगदायए सव्वे । आयारस्स भगवेतो निज्जुत्तिं कित्तइस्सामि ॥१॥
वंदित्तु सव्वसिद्धे इत्यादि । तत्र वन्दित्वा सर्वसिद्धान् जिनान् च इति मङ्गलवचनम् । अनुयोगदायकान् इति एतच्च सम्बन्धवैचनं अपि । आचारस्य इति अभिधेयवचनम् । निर्युक्तिं करिष्ये इति प्रयोजनकथनमिति तात्पर्यार्थः ।
अवयवार्थस्तु वन्दित्वा इति " वदि अभिवादन - स्तुत्योः " [पा०धा०१ / ११] इति अर्थद्वयाभिधायी धातुः, तत्र अभिवादनं कायेन, स्तुतिः वाचा, अनयोश्च मनःपूर्वकत्वात् करणत्रयेणापि नमस्कार आवेदितो भवति । सितं ध्मातं एषामिति सिद्धा: प्रक्षीणाशेषकर्माणः, सर्वे च ते सिद्धाश्च = सर्वसिद्धाः, सर्वग्रहणं तीर्था - ऽतीर्था - ऽनन्तरपरम्परादिसिद्धप्रतिपादकम्, तान् । वन्दित्वा इति सम्बन्धः सर्वत्र योज्यः । राग-द्वेषजितो जिना : तीर्थकृतः, तानपि सर्वान् अतीता - ऽनागत- वर्तमानसर्वक्षेत्रगतान् इति । अनुयोगदायिनः सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनः चतुर्दशपूर्वधरस्य आचार्य:, अतस्तान् सर्वानिति । अनेन च आम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति ।
वन्दित्वा इति क्त्वाप्रत्ययस्य उत्तरक्रियासव्यपेक्षत्वाद् उत्तरक्रियामाह - आचारस्य यथार्थनाम्नः, भगवत इति अर्थ-धर्म-प्रयत्नगुणभाजः, तस्यैवंविधस्य निश्चयेन टि० १. ०नुयोगं कि० ख ॥। २. ०वओ णिज्जु० ख विना ॥। ३. ०वचनम् । आचा० क - खप्रत्योः पश्चात् कृतम् ॥ ४. स्वमनीषिकाया व्यु० ख ॥
वि०टि० " सम्बन्धवचनमपि इति न केवल (लं) मङ्गलवचनम्, गुरुपर्वक्रमसम्बन्धकथनमपि " जै०वि०प० ॥