SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ निक्षेपपदानि [श्रु०१ । अ०१ । उ०१ । नि०५] अर्थप्रतिपादिका युक्तिः - निर्युक्तिः, तां कीर्तयिष्ये = अभिधास्ये इति, अन्तस्तत्त्वेन निष्पन्नां निर्युक्तिं बहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः ॥ १॥ यथाप्रतिज्ञातमेव बिभणिषुः निक्षेपार्हाणि पदानि तावत् सुहृद् भूत्वा आचार्यः सपिण्ड्य कथयति [ नि० ] आयार अंग सुय खंध बंभ चरणे तहेव सत्थे य । परिण्णाए सन्नाए निक्खेवो तेह दिसाणं च ॥२॥ - दिशां आयारेत्यादि । आचार - अङ्ग - श्रुत-स्कन्ध-ब्रह्म-चरण-शस्त्र - परिज्ञा-सञ्ज्ञा - निक्षेपः कर्तव्य इति । तत्र आचार - ब्रह्म- चरण - शस्त्र - परिज्ञाशब्दा नामनिष्पन्ने निक्षेपे दृष्टव्याः । अङ्ग-श्रुत-स्कन्धशब्दा ओघनिष्पन्ने, सञ्ज्ञा - दिक्शब्दौ तु सूत्रालापकनिष्पन्ने निक्षेपे दृष्टव्यौ इति ॥२॥ ऐतेषां मध्ये कस्य कतिविधो निक्षेपः ? इत्यत आह [ नि० ] चरण-दिसावज्जाणं निक्खेवो चडविहो उ नायव्वो । चरणम्मि छेव्विहो खलु सत्तविहो होइ उ दिसाणं ॥३॥ चरणेत्यादि । चरण - दिग्वर्जानां चतुर्विधो निक्षेपः । चरणस्य षड्विधः, दिक्शब्दस्य सप्तविधो निक्षेपः ||३|| अत्र च क्षेत्र - कालादिकं यथासम्भवं आयोज्यम्; नामादिचतुष्टयं तु सर्वव्यापीति दर्शयितुमाह [ नि० ] जत्थ य जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । ० जत्थ वि य ण जाणेज्जा चउक्कयं निक्खिवे तत्थ ॥४॥ जत्थ य जमित्यादि । यत्र चरण - दिक्शब्दादौ यं निक्षेपं क्षेत्र - कालादिकं जानीयात् तं तत्र निरवशेषं निक्षिपेत् । यत्र तु विशेषं न जानीयाद् आचारा-ऽङ्गादौ तत्रापि नाम-स्थापना- द्रव्य - भावचतुष्कात्मकं निक्षेपं निक्षिपेदिति उपदेश इति गाथार्थः ||४|| प्रदेशान्तरप्रसिद्धस्य अर्थस्य लाघवमिच्छता नियुक्तिकारेण गाथा अभ्यधायि— आयारे अंगम्मिय पुव्वुद्दिट्ठो चउक्कनिक्खेवो । नवरं पुण नाणत्तं भावायारम्मि तं वोच्छं ॥५॥ [ नि० ] टि० १. तहा दि० ख छ ज ञ । २. दिशांमिति एतेषां निक्षे० ख विना ॥। ३. एषां ख घ च ॥ ४. चउक्कओ य ना० झ । चउव्विहो ञ ठ ।। ५. छव्विहे झ । छव्विहं ञ । ६. हु ख ।। ७. सप्तधा नि० गङ विना ।। ८. ०यं सर्व कप्रतिं विना ।। ९. वि न य जा० छ । १०. यत्र निरवशेषं न घ ङच ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy