________________
अनुयोगद्वाराणि आचष्टे। ग्राहणाकुशलो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति ।
स्वसमय-परसमयज्ञः सुखेनैव तत्स्थापनोच्छेदौ करिष्यति । गम्भीरः खेदसहः । दीप्तिमान् पराधृष्यः । शिवहेतुत्वात् शिवः, तदधिष्ठितदेशे मार्याद्युपशमनात् । सौम्यः सर्वजैनमनो-नयनरमणीयः । गुणशतकलितः प्रश्रयादिगुणोपेतः । एवंविधः सूरिः प्रवचनानुयोगे योग्यो भवति ।
[श्रु०१ । अ०१ । उ०१]
तस्य चानुयोगस्य महापुरस्येव चत्वारि अनुयोगद्वाराणि - व्याख्याङ्गानि भवन्ति, तद्यथा—उपक्रमो निक्षेपोऽनुगमो नयः च । तत्रोपक्रमणुम्=उपक्रमः, उपक्रम्यते अनेन अस्माद् अस्मिन् इति वा उपक्रमः, व्याचिख्यासितशास्त्रसमीपानयनमित्यर्थः । स च शास्त्रीय-लौकिकभेदाद् द्विधा । तत्र शास्त्रीय- आनुपूर्वी नाम प्रमाणं वक्तव्यता अर्थाधिकारः समवतारश्चेति षोढा । लौकिको नाम - स्थापना - द्रव्य-क्षेत्र - काल- भावभेदात् षोढैव ।
निक्षेपणं अनेन अस्माद् अस्मिन् इति वा निक्षेपः, उपक्र मानीतस्य व्याचिख्यासितशास्त्रस्य नामादिन्यसनमित्यर्थः । स च त्रिविधः, तद्यथा— ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च । तत्रौघनिष्पन्नः अङ्गा - ऽध्ययनादिसामान्याभिधानन्यासः । नामनिष्पन्न आचार-शस्त्र - परिज्ञादिविशेषाभिधाननामादिन्यासः । सूत्रालापकनिष्पन्नश्च सूत्रालापकानां नामादिन्यसनमिति ।
अनुगमनं अनेन अस्माद् अस्मिन् इति वा अनुगमः, अर्थकथनमित्यर्थः । स च द्वेधा - निर्युक्त्यनुगमः सूत्रानुगमश्चेति । तत्र नियुक्त्यनुगमः त्रिविधः, तद्यथानिक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्त्यनुगमश्च इति । तत्र निक्षेपनिर्युक्त्यनुगमो निक्षेप एव सामान्य विशेषाभिधानयोः ओघनिष्पन्न-नामनिष्पन्नाभ्यां निक्षेपाभ्यामनुगतः, सूत्रापेक्षया वक्ष्यमाणलक्षणश्चेति । उपोद्घातनिर्युक्त्यनुगमश्च आभ्यां द्वारगाथाभ्याम् अनुगन्तव्यः, तद्यथा—
"उद्देसे निद्देसे य निग्गमे खेत्त कालपुरिसे य । कारण पच्चय लक्खण नए समोयारणाणुमए ॥
किं कइविहं कस्स कहिं केसु कहं केचिरं हवइ कालं ।
टि० १. ०जननयन- मनोरम० ग ।। २. ०स्त्रस्य समी० ग ॥। ३. ०ति । लौ० क ग घ ङ च ॥ ४. ०धः - ओघ० ख ॥। ५. केच्चिरं ग च । किच्चिरं घ ङ ॥
वि०टि०
प्रश्रयः - विनयः ॥
वक्ष्यमाणमर्थं मनसि अवधार्य तदर्थं अर्थान्तरकथनं उपोद्घातः ॥