SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०१। उ०१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् अर्थकथनं भावानुयोगः । शेषमावश्यकानुसारेण 'नेयम् । केवलं इहानुयोगस्य प्रस्तुतत्वात् तस्य च आचार्याधीनत्वात् केन इति द्वारं विव्रियते, तथा उपक्रमादीनि च द्वाराणि प्रचुरतरोपयोगित्वात् प्रदर्श्यन्त इति । तत्र 'केन' इति कथम्भूतेन ?, यथाभूतेन च सूरिणा व्याख्या कर्तव्या तथा दर्शाते "देस-कुल-जाति-सेवी संघयण-धिईजुतो अणासंसी । अविकंथणो अमादी थिरपरिवाडी गहियवक्को ॥ जियपरिसो जियनिदो मज्झत्थो देस-काल-भावण्णू । आसन्नलद्धपतिभो नाणाविहदेसभासण्णू ॥ पंचविहे आयारे जुत्तो सुत्त-ऽत्थ-तदुभयविहिण्णू । आहरण-हेउ-कारण-नयनिउणो गाहणाकुसलो ॥ ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥" [बृ०क०भा०२४१-२४४] आर्यदेशोद्भुतः सुखावबोधवचनो भवत्यतो देशग्रहणम् ।। पैतृकं कलमिक्ष्वाक्वादि, ज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति । मातृकी जातिः, तत्सम्पन्नो विनयादिगुणवान् भवति । 'यत्राकृतिस्तत्र गुणा वसन्ति' इति स्त्पग्रहणम् । संहनन-धृतियुतो व्याख्यानादिषु न खेदमेति । अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति । अविकत्थन: हित-मितभाषी । अमायी सर्वत्र विश्वास्यः । स्थिरपरिपाटि: परिचितग्रन्थस्य सूत्राऽर्थगलनाऽसम्भवात् । ग्राह्यवाक्यः सर्वत्राऽस्खलिताज्ञः । जितपर्षद् राजादिसदसि न क्षोभमुपयाति । जितनिद्रः अप्रमत्तत्वाद् निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति । मध्यस्थः शिष्येषु समचित्तो भवति । देश-काल-भावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति । आसन्नलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थो भवति । नानाविधदेशभाषाविधिज्ञस्य नानादेशजाः 'शिष्याः सुखं व्याख्यामवभोत्स्यन्ते । ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति । सूत्रा-ऽर्थ-तदुभयविधिज्ञ उत्सर्गाऽपवादप्रपञ्चं यथावद् ज्ञापयिष्यति । हेतूदाहरण-निमित्त-नयप्रपञ्चज्ञः अनाकुलो हेत्वादीन् टि० १. ज्ञेयम् ग च ॥ २. प्रदर्श्यते ग घ ङ च ॥ ३. ०रूवी संघयणी धीजुतो ख च । ०रूवी संधयणी धिइजुतो क ग ॥ ४. अविकत्थणो ख ग घ ङ ।। ५. ०शोद्भवः सु०ग ॥ ६. भवतीत्यतो ग ॥ ७. कुलमेक्ष्वाक्वादि क ख च ।। ८. ०परिषद् रा० ख घ ङ च ॥ ९. ०व बोघ० ख ग च ।। १०. नानविधदे० च ॥ ११. शिष्या व्याख्यानं सुखमव० ग ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy