________________
मङ्गलपदनिरुक्तिः
[श्रु०१। अ०१। उ०१] अभिलषितशास्त्रार्थस्थिरीकरणार्थम् । अवसानमङ्गलं नवमाध्ययने अवसानसूत्रम्अभिणिव्वुडे अमाई, आवकहाए भयवं समियासी [अध्य०९ उद्दे०४ सू०३२२(१०९)], अत्र 'अभिनिवृत'ग्रहणं संसारमहातरुकन्दोच्छेदाऽविप्रतिपत्त्याध्या[?धा]नकारित्वाद् मङ्गलमिति; एतच्च शिष्य-प्रतिशिष्यसन्तानाव्यवच्छेदार्थमिति । अध्ययनगतसूत्रमङ्गलत्वप्रतिपादनेनैव अध्ययनानामपि मङ्गलत्वं उक्तमेव इति न प्रतन्यते । सर्वमेव वा शास्त्रं मङ्गलम्, ज्ञानरूपत्वात्, ज्ञानस्य च निर्जरार्थत्वात्, निर्जरार्थत्वेन च तस्याऽविप्रतिपत्तिः । यत उक्तम्"जं अण्णाणी कम्मं खवेति बहुयाहि वासकोडीहिं । तं नाणी तिहिँ गुत्तो खवेइ ऊसासमेत्तेण ॥" [बृ०क०भा०११७०, पंचक०भा०१२१३]
मङ्गलशब्दनिरुक्तं च- मां गालयति अपनयति भवादिति मङ्गलम्, मा भूद् गल: विघ्नः गालो वा विनाशः शास्त्रस्य इति मङ्गलमित्यादि, शेषं तु आक्षेप-परिहारादिकं अन्यतः अवसेयमिति ।
साम्प्रतं आचारानुयोगः प्रारभ्यते- आचारस्य अनुयोगः-अर्थकथनम् आचारानुयोगः । सूत्राद् अनु-पश्चाद् अर्थस्य योग: अनुयोगः, सूत्राध्ययनात् पश्चादर्थकथनमिति भावना । अणोः वा लघीयसः सूत्रस्य महताऽर्थेन योगः अणुयोगः । स चामीभिः द्वारैरनुगन्तव्यः, तद्यथा"निक्खेवेगट्ठ निरुत्त विहि पवित्ती य केन वा कस्स । तद्दार भेय लक्खण तदरिहपरिसा य सुत्तत्थो ॥" [ दशवै०नि०५, बृ०क०भा०१४९]
__तत्र निक्षेपो नामादिः सप्तधा । नाम-स्थापने क्षुण्णे । द्रव्यानुयोगो द्वेधा- आगमतो नोआगमतश्च । तत्र आगमतो ज्ञाता तत्र च अनुपयुक्तः । नोआगमतो ज्ञशरीर-भव्यशरीरतद्व्यतिरिक्तोऽनेकधा, द्रव्येण सेटिकादिना द्रव्यस्य आत्म-परमाण्वादेः द्रव्ये निषद्यादौ वा । क्षेत्रानुयोगः- क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोगः । एवं कालेन कालस्य काले वाऽनुयोगः= कालानुयोगः । एवं वचनानुयोग एकवचनादिना । भावानुयोगो द्वेधा- आगमतो नोआगमतश्च । तत्रागमतो ज्ञाता उपयुक्तः । नोआगमतस्तु औपशमिकादिभावैः, तेषां वाऽनुयोगः
टि० १. ०च्छेदप्रति० घ । ०च्छेद्यविप्रति० ग च । ०च्छेद्याविप्रति० ङ ॥२. ०मित्येव तच्च ग ॥ ३. ०त् तस्य ज्ञान० ग ङ॥ ४. ०रुत्ति वि० ख ऋते ॥ ५. तयरि० ग ॥ ६. ०दौ वा । क्षेत्रेण ख । ०दौ । क्षेत्रानु० ग ङ ।। ७. ०गः क्षेत्रानुयोगः एवं ख च ॥ ८.०श्च । आगम० ख घ ङ च ॥
वि०टि० ० "छेद्यविप्रति० इति संशय-विपर्यया-ऽनध्यवसायरहितं ज्ञानम्" जै०वि०प० ।। 2 "सेटिका इति खटिका" जै०वि०प० ॥