________________
[श्रु०१। अ०१। उ०१]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् इह हि राग-द्वेष-मोहाभिभूतेने संसारिजन्तुना शारीर-मानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयपदार्थपरिज्ञाने यत्नो विधेयः; प च न विशिष्टविवेकं ऋते; विशिष्टविवेकश्च न प्राप्ता 'पातिशयकलापाप्तोपदेशमन्तरेण आप्तश्च राग-द्वेषमोहादीनां दोषाणाम् आत्यन्तिकप्रक्षयात्, स चाऽर्हत एव, अतः प्रारभ्यत अर्हद्वचनानुयोगः। स च चतुर्धा, तद्यथा-धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगः चरणकरणानुयोगः चेति । तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः, द्रव्यानुयोगः पूर्वाणि "सम्मत्यादिकश्च, चरणकरणानुयोगश्चाऽऽचारादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात् । तदुक्तम्
"चरणपडिवत्तिहेलं, जेणियरे तिण्णि अनुयोग ।" [ओघ०नि०भा०६] त्ति । तथा- "चरणपडिवत्तिहेउं, 'धम्मकहा-कालदिक्खमादीया ।
दविए दंसणसोही, दंसणसुद्धस्स चरणं तु ॥" [ओघ०नि०भा०७]
गणधरैरप्यत एव तस्यैव आदौ प्रणयनमकारि । अतः तत्प्रतिपादकस्य आचाराङ्गस्य अनुयोगः समारभ्यते; स च परमपदप्राप्तिहेतुत्वात् सविघ्नः । तदुक्तम्
“श्रेयांसि बहुविनानि भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥" तस्मादशेषप्रत्यूहोपशमनाय मङ्गलमभिधेयम् । तच्च आदि-मध्या-ऽवसानभेदात् त्रिधा । तत्रादिमङ्गलम्- सुयं मे आउसं ! तेणं भगवया एवमक्खायमित्यादि [अध्य०१ उद्दे०१ सू०१], “अत्र च भगवद्वचनानुवादो मङ्गलम् । अथवा श्रुतमिति श्रुतज्ञानम्, तच्च
नन्द्यन्तःपातित्वाद् मङ्गलमिति; एतच्च अविघ्नेन अभिलषितशास्त्रार्थपारगमनकारणम् । मध्यमङ्गलं लोकसाराध्ययनपञ्चमोद्देशकसूत्रम्- से जहा वि हरए पडिपुण्णे चिट्ठइ समंसि भोमे उवसंतरए सारक्खमीणेत्यादि [अध्य०५ उद्दे०५ सू०१६६], अत्र च हृदगुणैः आचार्यगुणोत्कीर्तनम्, ओचार्यश्च पञ्चनमस्कारान्तःपातित्वाद् मङ्गलमितिः; एतच्च
टि० १. ०हाद्यभिभू० क ऋते ॥ २. ०न सर्वेणापि जन्तुना ग ॥ ३. ०सातिक० क घ । ०सानेककटुकदःखौघनिपा० ग। ०सानेककट० च ।। ४.०पादेयार्थप० ख ॥ ५. ०कालि दिक्ख० क घ ङ॥ ६. दंसणसुद्धी ग ।। ७. ०शमाय ख ।। ८. तत्र ख ॥ ९. जहा केवि ख ग च ।। १०. ०क्खमाणे० घ ङ ।। ११. आचार्यस्य पञ्च० च ॥
वि०टि० ० स च आत्यन्तिकप्रक्षयः ॥ "सम्मतीति अभयदेवादि" जै०वि०प० ॥ "धम्मकहेति अनेन धर्मकथानुयोगभणन[म्], कालेति एतेन गणितानुयोगस्य" जै०वि०प० ।। A "नन्द्यन्तः इति नन्दिध्वनिना ज्ञानपञ्चकं गृहीतम्" जै०वि०प० ॥ O "हरए इति हृदः" जै०वि०प० ।