SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ पञ्चमगणधरदेवश्रीसुधर्मस्वामिपरम्परायातं श्रुतकेवलिभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं "श्री'शीलाचार्यविरचितविवरणविभूषितं ॥ श्री आचाराङ्गसूत्रम् ॥ प्रथमः श्रुतस्कन्धः । प्रथमं शस्त्रपरिज्ञाध्ययनम् । प्रथम उद्देशकः । १॥ ४ नमः सर्वज्ञाय ॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिकम्, विहितैकैकतीर्थनयवादसमूहवशात् प्रतिष्ठितम् । बहुतिर्थभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसम्, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ॥१॥ आचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः । तथैव किञ्चिद् गदतः स एव मे, पुनातु धीमान् विनयापिता गिरः ॥२॥ शस्त्रपरिज्ञाविवरणमतिबहु गहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थम्, गृह्णाम्यहमञ्जसा सारम् ॥३॥ टि० १. नमः सर्वविदे ख घ ङच । अनमो वीतरागाय ग । २. बहुविधभङ्गसि० ग घ च ।। ३. ०थभङ्गसि० ङ॥ वि०टि० अत्रेदमवधेयम्- आचाराङ्गसूत्रस्य शीलाचार्यविरचितटीकासहितः अध्ययनचतुष्टयात्मको भागः आगमप्रभाकरमुनिराजश्रीपुण्यविजयजीमहाराजस्य अन्तेवासितुल्येन गृहस्थेन श्रावकेण पं० अमृतलालभाई मोहनलाल भोजकेन संशोधितो तेनैव च स्वहस्तेन लिखितोऽस्माकं हस्ते समायातोऽधुना । स यथालब्ध एव सम्प्रति प्रकाश्यते मया जम्बूविजयेन । तत्र क ख ग इत्यादि संकेतैः बहवः पाठभेदा निर्दिष्टाः । किन्तु तेषां संकेतानां कोऽर्थ इति न ज्ञायतेऽस्माभिः । क ख ग इत्यादयो हस्तलिखिता आदर्शाः कुत्रत्या इति वयं न जानीमः । पं० अमृतलालभाई महोदयोऽपि दिवंगत इति अत्रार्थे प्रष्टव्यः कोऽपि नास्ति -इति जम्बूविजयेन निवेद्यते, तथा कतिचित्करणीयसंस्काराणि कृत्वा जयानन्द्यपरनाम्ना अनन्तयशविजयेन पुनः सम्पाद्यते ।। 'शीलाङ्काचार्य' इति प्रसिद्धिः ॥ "जयतीति स्कन्दकं छन्दः" जै०वि०प० ।। जै०वि०प०जैनसिद्धान्तविषमपदपर्यायनामा ग्रन्थो ज्ञायते, यद् वा जैसलमेरविषमपदपर्यायनामा ग्रन्थो स्यात् ॥A"तीर्थ इति मत" जै०वि०प० ।। * 'तिथुक' प्रत्यय अत्र प्रकारवाची ग्राह्यः ।। "मल इति बद्धं कर्म, मलीमसेति बध्यमानम्" जै०वि०प०॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy