SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ निष्कर्म्मदर्शिनो गुणाः सम्यग्भूतं कुर्यात् । किं कृत्वा ? इत्याह [श्रु०१। अ०४ । उ०४ । सू० १४५ ] पलिछिंदिय बाहिरगं च सोतं णिक्कम्मदंसी इह मच्चिएहिं । तच्च पलिच्छिंदि० इत्यादि। परिच्छिन्द्य = अपनीय, किं तत् ? - श्रोतः पापोपादानम्, धन्-धान्य-हिरण्य-पुत्र-कलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चशब्दाद् आन्तरं च ग-द्वेषात्मकं विषयपिपासारूपं चेति । किञ्च निक्कम्मदंसी इत्यादि । निष्क्रान्तः कर्मणो= निष्कर्मा मोक्षः संवरो वा, तं द्रष्टुं शीलमस्य इति निष्कर्मदर्शी । इह इति संसारे मर्त्येषु मध्ये य एव निष्कर्मदर्शी स एव बाह्या-ऽभ्यन्तरश्रोतसः छेत्ता इति । स्यात्- किमभिसन्धाय स बाह्या - ऽभ्यन्तरसंयोगस्य छेत्तानिष्कर्मदर्शी वा भवेत् ? इत्यत आह कम्मुणा सफलं दटुं ततो णिज्जाति वेदवी ॥१४५॥ " कम्णा इत्यादि । मिथ्यात्वा ऽविरति - प्रमाद - कषाय-योगैः क्रियन्ते बध्यन्ते इति कर्माणि ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा स वा निष्कर्मदर्शी वेदविद् वाकर्मणां फलं दृष्ट्वा, तेषां च फलम्- ज्ञानावरणीयस्य ज्ञानावृतिः, दर्शनावरणस्यदर्शनाच्छादनम्, वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि । ननु च न सर्वेषां कर्मणां विपाकोदयमिच्छन्ति प्रदेशानुभवस्यापि सद्भावात्, तपा च क्षयोपपत्तेः इत्यतः कथं कर्मणां सफलत्वम्? नैष दोष:, नात्र प्रकारकात्र्म्यं अभिप्रेतम्, अपि तु द्रव्यकार्त्स्यम्, तच्च अस्ति एव, तथा हि- यद्यपि प्रतिबन्धव्यक्ति न विपाकोदयः तथापि अष्टानामपि कर्मणां सामान्येन सोऽस्ति एव इति । अतः कर्मणां सफलत्वर्मुपलभ्य ततः = तस्मात् कर्मणः तदुपादानाद् आश्रवाद् वा निश्चयेन याति=निर्याति निर्गच्छति, तन्न विधत्ते इति यावत् । कोऽसौ ? - वेदवित् वेद्यते सकलं चरा–Şचरं अनेन इति वेदः आगमः, तं वेत्तीति वेदवित्, सर्वज्ञोपदेशवर्तीत्यर्थः ।। १४५ ।। न "केवलस्य ममैव अयमभिप्रायः, सर्वेषामेव तीर्थकराणां अयमाशय इति दर्शयितुमाह - जे खलु भो 'वीरा इत्यादि । यदि वा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रच। अधुना तत्फलमुच्यते ११ टि० १. परिच्छिन्द्य क ग ऋते ।। २. ०कं च विषयपिपासा इत्यादि । किञ्च ख ॥। ३. किमभिसन्ध्य सग विना ।। ४. वेदविद्वान् कर्मणां ख ग ।। ५. ० विपाकोदयः प्रदेशा० ख ग ।। ६. क्षयोपपत्तेः कथं ख ।। ७. ० इत्येतत् कथं क ॥। ८. प्रतिषेधं व्यनक्ति न विपाको० ख ।। ९. ०मुपलभ्यते तस्मात् घ ङ ।। १०. केवलं ममैवा० घ ङ ॥ ११. धीरा च । ३५७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy