________________
[श्रु०१। अ०४। उ०४। सू०१४५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् अव्यवच्छिन्नबन्धनस्य अनभिक्रान्तसंयोगस्य अज्ञानतमसि वर्तमानस्य पुरा पूर्वजन्मनि बोधिलाभो नास्ति सम्यक्त्वं नासीत्, पश्चादपि एष्येऽपि जन्मनि न भावि, मध्ये मध्यजन्मनि तस्य कुतः स्यात् ? इति। एतदुक्तं भवति- यस्यैव पूर्वं बोधिलाभः संवृत्तो भविष्यति वा तस्यैव वर्तमानकाले भवति, येन हि सम्यक्त्वं आस्वादितं पुनः मिथ्यात्वोदयात् तत् प्रच्यवते तस्य अपार्धपुद्गलावर्तेनापि कालेन अवश्यं तत्सद्भावात् । न हि अयं सम्भवोऽस्ति- प्रच्युतसम्यक्त्वस्य पुनः असम्भव एवेति।
अथवा निरुद्धेन्द्रियः अपि आदानश्रोतोगृद्ध इत्युक्तः। तद्विपर्ययभूतस्य तु अतिक्रान्तसुखस्मरणं अकुर्वतः आगामि च दिव्याङ्गनाभोगं अनभिकाश्तो वर्तमानसुखाभिष्वङ्गोऽपि नैव स्यादिति एतद् दर्शयितुमाह
जस्स नत्थि इत्यादि। यस्य भोगविपाकवेदिनः पूर्वभुक्तानुस्मृतिः नास्ति, नापि पाश्चात्त्यकालभोगाभिलाषिता विद्यते, तस्य व्याधिचिकित्सारूपान् भोगान् भावयतः मध्ये वर्तमानकाले कुतो भोगेच्छा स्यात्?, मोहनीयोपशमात् नैव स्याद् इत्यर्थः। यस्य तु त्रिकालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यात्? इत्याह
से हु पन्नाणमंते बुद्धे आरंभोवरए।
सम्ममेतं ति पासहा।
से हु इत्यादि। हुः यस्मादर्थे, यस्माद् निवृत्तभोगाभिलाषः तस्मात् स प्रज्ञानवान् प्रकृष्टं ज्ञानं प्रज्ञानं जीवा-ऽजीवादिपरिच्छेत्तृ, तद् विद्यते यस्य असौ-प्रज्ञानवान्; यत एव प्रज्ञानवान् अत एव बुद्धः अवगततत्त्वः; यत एवम्भूतः अत एवाह-'आरंभोवरए' सावद्यानुष्ठानम् =आरम्भः, तस्मादुपरतः आरम्भोपरतः। एतत् च आरम्भोपरमणं शोभनमिति दर्शयन्नाह
सम्ममित्यादि। यदिदं सावद्यारम्भोपरमणं सम्यग् एतत् शोभनमेतत्, सम्यक्त्वकार्यत्वाद् वा सम्यक्त्वमेतदिति एवं पश्यत एवं गृह्णीत यूयमिति । किमिति आरम्भोपरमणं सम्यक्? इति चेद्, आह
जेण बंधं वहं घोरं परितावं च दारुणं ।
जेण इत्यादि। येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः, वधं कशादिभिः, घोरं प्राणसंशयरूपं, परितापं शारीर-मानसं, दारुणं असह्यं अवाप्नोति अत आरम्भोपरमणं
टि० १. आसादितं ख च॥ २. तस्योपार्ध० कआदर्शमृते॥ ३. तद्भावात् क॥४. सममित्यादि च॥५. सम्यक्त्वमिति ख॥ ६. इति तदाह क॥
३५६