________________
[श्रु०१। अ०४ । उ०४ सू० १४६ ]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
सू०] जे खलु भो वीरा समिता सहिता सदा जता संथडदंसिणो आतोवरता अहा तहा लोगं उवेहमाणा पाईणं पडीणं दाहिणं उदीणं इति सच्चंसि परिविचिट्ठिसु ।
खलु इत्यादि । खलुशब्दः वाक्यालङ्कारे, ये केचन अतीता - ऽनागत- वर्तमानाः, भो इति आमन्त्रणे, वीराः कर्मविदारणसहिष्णवः, समिताः समितिभिः, सहिताः ज्ञानादिभिः, सदा यैताः सत्संयमेन, 'सैंथडदंसिणो' त्ति निरन्तरदर्शिनः शुभा - ऽशुभस्य, आत्मोपरताः पापकर्मभ्यः, यथा तथा अवस्थितं लोकं चतुर्दशरज्ज्वात्मकं लोकं कर्मलोकं वा उपेक्षमाणाः=पश्यन्तः सैर्वासु प्राच्यादिषु दिक्षु व्यवस्थिता इत्येवंप्रकाराः, सत्यम् इति ऋतं तपः संयमो वा, तत्र परिचितस्थिरे तस्थुः स्थितवन्तः । उपलक्षणार्थत्वात् त्रिकालविषयता दृष्टव्या, तत्र अतीते काले अनन्ता अपि सत्ये तस्थुः वर्तमाने पञ्चदशसु कर्मभूमिषु सङ्ख्येयाः तिष्ठन्ति, अनागते अनन्ता अपि स्थास्यन्ति ।
६
साहिस्सामो णाणं वीराणं समिताणं सहिताणं सदा जताणं संथडदंसीणं आतोवरताणं अहा तहा लोकमुवेहमाणाणं- किमत्थि उवधी पासगस्स, ण विज्जति ?, णत्थि त्ति बेमि ॥ १४६ ॥
॥ चउत्थमज्झयणं सम्मत्तं ॥
तेषां च अतीता -ऽनागत - वर्तमानानां सत्यवतां यद् ज्ञानं योऽभिप्रायः तदह कथयिष्यामि भवताम्, शृणुत यूयम् । किम्भूतानां तेषां ? वीराणामित्यादीनि विशेषणानि गतार्थानि । किम्भूतं ज्ञानम् ? इति चेद्, आह
किं प्रश्ने, अस्ति = विद्यते, कोऽसौ ? - उपाधिः कर्मजनितं विशेषणम्, तद्यथानारकः तैर्यग्योनैः सुखी दुःखी सुभगो दुर्भगः पर्याप्तकोऽपर्याप्तक इत्यादि, आहोस्विद् न विद्यते ? इति परमतमाशङ्क्य ते ऊचुः - पश्यकस्य सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः, स एव पश्यकः, तस्य कर्मजनितोपाधिः न विद्यते इति तदनुसारेण
१३ १३
=
टि० १. जे य खलु ख॥ २. समितिभिः समिताः ग ॥। ३. यतास्तत्सम्भवे च संथड० ख ॥। ४. संघड० घङ ॥ ५. सर्वासु दिक्षु प्राच्यादिषु व्यव० ख ॥। ६. व्रतं क घ ङ ।। ७. परिचिते स्थिरे स्थित० घ । परिचिते तस्थुः स्थिरे स्थित० ङ ॥ ८. ० विषयतो दृष्टव्याः, ख ॥ ९. धीराणा० च ॥ १०. इति तदाह क ॥। ११. ०नः सुभगो दुर्भगः सुखी दुःखी पर्या० ख ग ।। १२. परमाशङ्क्य च ॥ १३. तदस्य ख ॥
३५८