SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्थ उद्देशकः ॥ उक्तः तृतीयोद्देशकः। साम्प्रतं चतुर्थ आरभ्यते। अस्य च अयमभिसम्बन्धः- इह अनन्तरोद्देशके निरवद्यं तपः अभिहितम्, तच्च अविकलं सत्संयमव्यवस्थितस्य भवतीति, अतः संयमप्रतिपादनाय चतुर्थोद्देशक इति। अनेन सम्बन्धेन आयातस्य अस्य उद्देशकस्य आदिसूत्रम्सू०] आवीलए पवीलए णिप्पीलए जहित्ता पुव्वसंजोगं हिच्चा उवसमं। आवीलए इत्यादि। आङ् ईषदर्थे, ईषत् पीडयेत् अविकृष्टेन तपसा शरीरकंआपीडयेत्, एतच्च प्रथमप्रव्रज्यावसरे। तत ऊर्ध्वमधीतागमः परिणतार्थसद्भावः सन् प्रकर्षण विकृष्टतपसा पीडयेत्=प्रपीडयेत्। पुनः अध्यापिताऽन्तेवासिवर्गः सङ्क्रामितार्थसारः शरीरं 'तित्यक्षुः मासा-ऽर्धमासक्षपणादिभिः शरीरं निश्चयेन पीडयेद्=निष्पीडयेत् । स्यात्कर्मक्षयार्थं तपः अनुष्ठीयते, स च पूजा-लाभ-ख्यात्यर्थेन तपसा न भवति अतो निरर्थक एव शरीरपीडनोपदेश इति, अतोऽन्यथा व्याख्यायते कर्म एव कार्मणं शरीरं वा आपीडयेत् प्रपीडयेद् निष्पीडयेत्, अत्रापि ईषदर्थादिका प्रकर्षगतिः अवसेया। यदि वा आपीडयेत् कर्म अपूर्वकरणादिकेषु सम्यगदृष्ट्यादिषु गुणस्थानकेषु, ततः अपूर्वकरणा-ऽनिवृत्तिबादरयोः प्रपीडयेत् सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत्। अथवा आपीडनं उपशमश्रेण्याम्, प्रपीडनं क्षपकश्रेण्याम्, निष्पीडनं तु शैलेश्यवस्थायामिति। किं कृत्वा एतत् कुर्यात्? इत्याह जहित्ता इत्यादि। पूर्वः संयोगः पूर्वसंयोगः धन-धान्य-हिरण्य-पुत्र-कलत्रादिकृतः, तं त्यक्त्वा। यदि वा पूर्वः- असंयमः अनादिभवाभ्यासात् तेन संयोगः पूर्वसंयोगः, तं त्यक्त्वा, आवीलयेदित्यादि सम्बन्धः। किञ्च पहिच्चा इत्यादि। “हि गतौ” पा०धा०१२५८] इत्यस्मात् पूर्वकाले क्त्वा हित्वा गत्वा, किं तत् ?- उपशमं इन्द्रिय-नोइन्द्रियजयरूपं संयम वा गत्वा प्रतिपद्य, आपीडयेद् इति वर्तते। इदमुक्तं भवति- असंयमं त्यक्त्वा संयमं प्रतिपद्य तपश्चरणादिना आत्मानं कर्म वा आपीडयेत् प्रपीडयेद् निष्पीडयेदिति। यतः कर्माऽऽपीडनार्थं उपशमप्रतिपत्तिः तत्प्रतिपत्तौ च अविमनस्कता इत्याह टि० १. स च प्रकर्षेण ख ॥ २. सङ्क्रमिता० क॥ ३. तितिक्षु० ङ॥ ४. तत्रापि० घ॥ ५.चइत्ता क॥ ६. हेच्चा ख॥ ७. कत्वा गत्वा हित्वा ख॥ ३५३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy