SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०४। उ०४। सू०१४३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् तम्हा अविमणे वीरे सारए समिए सहिते सदा जते। तम्हा इत्यादि। यस्मात् कर्मक्षयाय असंयमपरित्यागः, तत्परित्यागे चावश्यम्भावी संयमः, तत्र च न चित्तवैमनस्यमिति, तस्माद् अविमना:- विगतं भोग-कषायादिषु अरतौ वा मनो यस्य स:-विमनाः, यो न तथा सो अविमनाः, कोऽसौ?- वीरः कर्मविदारणसमर्थः। अविमनस्कत्वात् च यत् स्यात् तद् आह सारए इत्यादि। सुष्ठ आ-जीवनमर्यादया संयमानुष्ठाने रतः=स्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन-सहितो ज्ञानादिसमन्वितो वा सहितः, सदासर्वकालं सकृदारोपितसंयमभारः सन् तत्र यतेत यत्नवान् भवेदिति। किमर्थं पौनःपुण्येन संयमानुष्ठान प्रति उपदेशो दीयते? इत्याह दुरणुचरो मग्गो वीराणं अणियटगामीणं। विगिंच मंस-सोणितं। दुरनुचरो इत्यादि। दुःखेन अनुचर्यत इति दुरनुचरः, कोऽसौ?- मार्गः = संयमानुष्ठानविधिः, केषां?- वीराणाम् अप्रमत्तयतीनाम्, किम्भूतानाम्? इत्याह- अणियदृ० इत्यादि। अनिवर्तः =मोक्षः, तत्र गन्तुं शीलं येषां ते तथा, तेषामिति। यथा च तन्मार्गानचरणं कृतं भवति तद् दर्शयति _ विगिंच इत्यादि। मांस-शोणितं दर्पकारि विकृष्टतपोऽनुष्ठानादिना विवेचयपृथक्कुरु, तद्धासं विधेहीति यावत्, एवं वीराणा मार्गानुचरणं कृतं भवतीति भावः। यश्च एवम्भूतः स कं गुणं अवाप्नुयात्? इत्याह एस पुरिसे दविए वीरे आयाणिजे वियाहिते जे धुणाति समुस्सयं वसित्ता बंभचेरंसि॥१४३॥ एस इत्यादि। एष: मांस-शोणितयोः अपनेता, पुरि शयनात्=पुरुषः, द्रवः संयमः, - स विद्यते यस्य असौ-द्रविकः मत्वर्थीयष्ठन्, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात्, कर्मरिपुविदारणसहिष्णुत्वाद् वीर इति। मांस-शोणितापचयप्रतिपादनात् च तदुत्तरेषामपि मेदआदीनां अपचय: उक्त एव द्रष्टव्यः, तद्भावभावित्वात् तेषामिति। किञ्च आयाणिज्जे इत्यादि। स वीराणां मार्गं प्रतिपन्नः मांस-शोणितयोः अपनेता मुमुक्षूणां टि०१. पुन: पौन० इति खप्रतौ विना।। २. धीराणाम् च॥ ३. वा ग॥ ४. कर्मरिपुविदारण: च ॥ ५. शोणितापनयापादनाच्च ग॥ ३५४
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy