________________
[श्रु०१। अ०४। उ०३।सू०१४२] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् स्पर्शान्=दुःखानि, चः समुच्चये, न केवलं क्रोधाध्मातः तस्मिन्नेव क्षणे दुःखं अनुभवति आगामीनि पृथग् दुःखानि च स्पृशेत् अनुभवेत्। तेन च अतिदुःखेन अपरोऽपि लोको दुःखित: इत्येतदाह
___ लोयं च इत्यादि। न केवलं क्रोधादिविपाकाद् आत्मा दुःखानि अनुभवति लोकं च शारीर-मानसदु:खापन्नं विस्पन्दमानम् =अस्वतन्त्रं इतश्च इतश्च दु:खप्रतीकाराय धावन्तं पश्य=विवेकचक्षुषा अवलोकय। ये तु एवं न ते किम्भूता भवन्ति? इत्यत आहजे णिव्वुडा पावेहिं कम्मेहिं अणिदाणा ते वियाहिता। तम्हाऽतिविजो णो पडिसंजलेजासि त्ति बेमि ॥१४२॥
॥ सम्मत्तस्स तइओ उद्देसओ सम्मत्तो॥ जे निव्वुडा इत्यादि। ये तीर्थकरोपदेशवासितान्तःकरणा विषय-कषायाग्न्युपशमात् निर्वृता:=शीतीभूता पापेषु कर्मसु अनिदाना:=निदानरहिताः ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः। यत एवं ततः किम्? इत्याह
तम्हा इत्यादि। यस्माद् राग-द्वेषाभिभूतो दुःखभाग् भवति तस्मात् अतिविद्वान् = विदितागमसद्भावः सन् प्रतिसज्वले:-क्रोधाग्निना नात्मानं दीपयेः, कषायोपशमं कुंरु इत्यर्थः, इति: अधिकारपरिसमाप्तौ, ब्रवीमि इति पूर्ववत्॥१४२॥
॥ सम्यक्त्वाध्ययने तृतीयोद्देशकटीका समाप्ता॥छ।।
टि० १. इत्याह ख। अत आह ग॥ २. क्रोधाग्निनाऽऽत्मानं नोद्दीपये: ख च।। ३. कुर्वीतेत्यर्थः ख-चपुस्तके विना॥ ४. परिसमाप्ता ख च। समाप्तेति घ ङ।
३५२