________________
क्रोधस्य विवेचना [श्रु०१। अ०४। उ०३। सू०१४२] इति आत्मसमाहितः, सदा शुभव्यापारवान् इत्यर्थः, आहिताग्न्यादिदर्शनाद् आर्षत्वाद् वा निष्ठान्तस्य परनिपातः, यदि वा प्राकृते पूर्वोत्तरनिपातो अतन्त्रः, समाहितात्म इत्यर्थः । अस्निहः =स्नेहरहितः सन् तपोऽग्निना कर्मकाष्ठं दहतीति भावार्थः ।।१४१।।
___एतदेव दृष्टान्त-दार्टान्तिकगतमर्थं नियुक्तिकारो गाथया उपसञ्जिघृक्षुः आहनि०] जह खलु झुसिरं कॅ8 सुचिरं सुक्खं लहुं डहइ अग्गी।
तह खलु खवेंति कम्मं सम्मं चरणट्ठिया साहू॥२३६॥
॥ सम्मत्तस्स निजुत्ती समत्ता ॥ जह खलु झुसिरं गाहा। गतार्था॥२३६।। अत्र च अस्निहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराहसू०] विगिंच कोहं अविकंपमाणे इमं निरुद्धाउयं सपेहाए।
विगिंच कोहमित्यादि। कारणे अकारणे वा अतिक्रूराध्यवसायः क्रोधः, तं परित्यज। तस्य च कार्यं कम्पनम्, तत्प्रतिषेधं दर्शयति- अविकम्पमानः। किं विगणय्य एतत् कुर्यात्? इत्याह-- ___इममित्यादि। इदं मनुष्यत्वं निरुद्धायुष्कं निरुद्धं परिगणितं आयुष्कं सम्प्रेक्ष्य: पर्यालोच्य क्रोधादिपरित्यागं विदध्यात्। किञ्च
दुक्खं च जाण अदुवाऽऽगमेस्सं। पुढो फासाइं च फासे।
लोयं च पास विप्फंदमाणं।
दुक्खमित्यादि। क्रोधाग्निना दन्दह्यमानस्य यद् मानसं दुःखमुत्पद्यते तद् जानीहि, तजनितकर्मविपाकापादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञया जानीहि, परित्यजेः इत्यर्थः। आगामिदुःखस्वरूपमाह
पुढो इत्यादि। पृथक् सप्तनरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु
टि० १. अस्नेहः ख च ।। २. निर्यक्तिगाथयोप० ख॥ ३. ससिरं क छ। ४. कट्रं सवं सचिरं ल ५. चरणे ठिआ ख। चरणे ठिया ज झ ञ। ६. साह ॥२३६॥ क्ख।क। साहू॥ २३६॥ छ॥ चतुर्थे तृतीयः ।। चतुर्थाध्ययननियुक्तिः॥ झ। ञ। साहू॥ २३६॥ च०ऽध्य०३०३ निर्यु०॥ चतुर्थोद्देशकस्य नास्ति॥ समाप्ता च०ऽध्य०नियुक्तिः॥ठ।। ७. तं त्यजेत् क। तं त्यज ग।। ८. परिगलित० च।। ९. क्रोधादिना घ ङ च।। १०. परित्यजेदित्यर्थः ख ग च।। ११. स्पर्शदुःखानि ख॥
३५१