________________
[श्रु०१ । अ०४ । उ०३ । सू०१४१]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
इह प्रवचने आज्ञाकाङ्क्षी पण्डितो भावरिपुभिः अनिहतः, नान्यत्र, यश्च अनिहतः स परमार्थतः कर्मणः परिज्ञाता । यश्च एवम्भूतः स किं कुर्यात् ? इत्याह
एगमप्पाणमित्यादि। सः अनिहतः अस्निहो वा आत्मानं एकं धन-धान्य- हिरण्यपुत्र-कलत्र-शरीरादिव्यतिरिक्तं प्रेक्ष्य = पर्यालोच्य धुनीयात् शरीरकम् सम्भावनायां लिङ्, सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत एव एतच्छरीरविधूननमिति । तच्च कुर्वता संसारस्वभावैकत्वभावना एवंरूपा भावयितव्या
""
" संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परो वा ? ! सर्वे भ्रमन्तः स्वजनाः परे च भवन्ति भूत्वा न भवन्ति भूयः ॥ ' “विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित् पुरतो न पश्चात् । स्वकर्मभिर्भ्रान्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् ॥ " " सदैकोऽहं न मे कश्चिद्, नाहमन्यस्य कस्यतिचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ ' तथा - " एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् ।
जायत्येको व्रजत्येकः, एको याति भवान्तरम् ॥” [
इत्यादि ।
तत्
३.
किञ्च– ‘केसेहि अप्पाणं जरेहि अप्पाणं' परव्यतिरिक्त आत्मा= शरीरं, कष्टतपश्चरणादिना कृशं कुरु । यदि वा कष= 'कस्मै कर्मणे अलम्' इत्येवं पर्यालोचय, यत् शक्नोषि तत्र नियोजयेः इत्यर्थः । तथा जर शरीरकं जरीकुरु तपसा तथा कुरु यथा जॅराजीर्णमिव प्रतिभासते, विकृतिपरित्यागद्वारेण आत्मानं निःसारतां आपादयेः इत्यर्थः। किमर्थं एतत् ? इति चेद्, आह
जहा जुन्नाई कट्ठाई हव्ववाहो पमत्थति एवं अत्तसमाहिते अणिहे ॥ १४१ ॥
प्रेमथ्नाति =
जहा इत्यादि । यथा जीर्णानि निःसाराणि काष्ठानि हव्यवाहः- = हुतभुक् शीघ्रं भस्मसात् करोति । दृष्टान्तं प्रदर्श्य दाष्टन्तिकमाह
एवं अत्तसमाहिए। एवं अनन्तरोक्तदृष्टान्तप्रकारेण आत्मना समाहितः = आत्मसमाहितः, ज्ञान-दर्शन-चारित्रोपयोगेन सदा उपयुक्त इत्यर्थः, आत्मा वा समाहितः अस्य
टि० १. जायते एयते चैक, एको घ। जायते अयते चैक, एको ङ् ॥ २. कस्से अप्पाणं ख । कसे अप्पाणं जरे अप्पाणं ग ॥। ३. नियोजयेदित्यर्थः घ ङपुस्तके ऋते ।। ४. जराजीणमिति ख ङ ।। ५. आपादयेदित्यर्थः क ग । आपादयेत्यर्थः ख च । ६. प्राश्नाति ख ।। ७. दान्तिकं करोति- एवमतसमाहिए ख ।। ८. सदोपयोग क ॥
३५०