SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ उदयस्थानप्ररूपणा [श्रु०१। अ०४। उ०३। सू०१४१] अयश:कीर्योः अन्यतरत् ९ एताश्च नव ध्रुवोदयसहिता एकविंशतिः २१। चतुर्विंशतिस्तु तिर्यग्गतिः १ एकेन्द्रियजाति: २ औदारिकं ३ हुण्डसंस्थानं ४ उपघातं ५ प्रत्येकसाधारणयोरन्यतरत् ६ स्थावरं ७ सूक्ष्म-बादरयोः अन्यतरत् ८ दुर्भगम् ९ अनादेयम् १० अपर्याप्तकं ११ यश:कीर्ति-अयशःकीोरन्यतरदिति १२। तत्रैव अपर्याप्तकापनयने पर्याप्तक-पराघाताभ्यां प्रक्षिप्ताभ्यां पञ्चविंशतिः २५। षड् विंशतिस्तु या असौ सयोगिकेवलिनो विंशतिः अभिहिता सैव औदारिकशरीरा-ऽङ्गोपाङ्गद्वया-ऽन्यतरसंस्थानाऽऽद्यसंहनन-उपघात-प्रत्येकसहिता वेदितव्या मिश्रकाययोगे वर्तमानस्य २६। 'सैव तीर्थकरनामसहिता केवलिसमुद्घातवतो मिश्रकाययोगिन एव सप्तविंशतिः २७। सैव प्रशस्तविहायोगतिसमन्विता अष्टाविंशतिः २८। तत्र तीर्थकरनामापनयने उच्छ्वास-सुस्वरपराघातप्रक्षेपे सति त्रिंशद् भवति ३०। तत्र स्वरे निरुद्ध एकोनत्रिंशत् २९। सैव त्रिंशत् तीर्थकरनामसहिता एकत्रिंशत् ३१। नवोदयस्तु मनुष्यगति: १ पञ्चेन्द्रियजाति: २ त्रसं ३ बादरं ४ पर्याप्तकं ५ सुभगम् ६ आदेयं ७ यश:कीर्तिः ८ तीर्थकरमिति ९, एता अयोगितीर्थकरकेवलिनः। एता एव तीर्थकरनामरहिता अष्टाविति ८। गोत्रस्यैकमेव सामान्येन उदयस्थानम्- उच्च-नीचयोः अन्यतरत्, योगपद्येन उदयभावो नास्ति, विरोधादिति। तदेवमुदयभेदः अनेकप्रकारतां कर्मणः परिज्ञाय प्रत्याख्यानपरिज्ञामुदाहरन्तीति॥१४०॥ यदि नाम कॅर्मपरिज्ञामुदाहरन्ति ततः किं कार्यम्? इत्याहसू०] इह आणाकंखी पंडिते अणिहे एगमप्पाणं सपेहाए धुणे सरीरं, कसेहि अप्पाणं, जरेहि अप्पाणं। इहेत्यादि। इह-अस्मिन् प्रवचने, आज्ञा आकाक्षितुं शीलमस्य इति आज्ञाकाङ्क्षी सर्वज्ञोपदेशानुष्ठायी, यश्च एवम्भूतः स पण्डित: विदितवेद्यः अस्निहो भवति, स्निह्यते= श्लिष्यते अष्टप्रकारेण कर्मणा इति स्निहः, न स्निह:=अस्निहः। यदि वा स्निह्यतीति स्निहः रागवान्, यो न तथा सोऽस्निहः, उपलक्षणार्थत्वात् च अस्य राग-द्वेषरहित इत्यर्थः। अथवा निश्चयेन हन्यत इति निहतः भावरिपुभिः इन्द्रिय-कषाय-कर्मभिः, यो न तथा सो अनिहतः। टि० १. सैव पराघात-उच्छ्वास-प्रशस्तविहायोगति-सुस्वरप्रकृतिषु प्रक्षिप्तास्वेकत्रिंशत्। सैव अतीर्थकरस्य त्रिंशत् । तस्यैव व (च) स्वरे निरुद्धे एकोनत्रिंशत् । उच्छ्वासे निरुद्धे अष्टाविंशतिरिति। नवोदयस्तु ग ।। २.०र-यश:कीर्तिप्रक्षेपे क ख॥ ३. यौगपद्येन उदयाभावो विरोधादिति ख ग च॥ ४. कर्मप्रतिज्ञा० ख। कर्म प्रति परिज्ञा० च ॥ ३४९
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy