________________
[श्रु० १ । अ०४ । उ०३ । सू०१४० ] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
तद्यथा
मूलप्रकृतीनां त्रीणि उदयस्थानानि - अष्टविधं सप्तविधं चतुर्विधमिति । तत्र अष्टा अपि कर्मप्रकृतीः यौगपद्येन वेदयतोऽष्टविधम्, तच्च कालतः अनादिकं अपर्यवसितं अभव्यानाम्, भव्यानां तु अनादिसपर्यवसितं सादिसपर्यवसितं चेति । मोहनीयोपशमे क्षये वा सप्तविधम् । घातिक्षये चतुर्विधमिति । साम्प्रतं उत्तरप्रकृतीनां उदयस्थानानि उच्यन्ते
तत्र ज्ञानावरणीया-ऽन्तराययोः पञ्चप्रकारं एकमुदयस्थानम् । दर्शनावरणीयस्य द्वेदर्शनचतुष्कस्य उदयात् चत्वारि, अन्यतरनिद्रया सह पञ्च । वेदनीयस्य सामान्येन एकं उदयस्थानं सातमसातं वेति, विरोधाद् यौगपद्योदयाभावः ।
मोहनीयस्य सामान्येन नव उदयस्थानानि, तद्यथा - दश १० नव ९ अष्टौ ८ सप्त ७ षड् ६ पञ्च ५ चत्वारि ४ द्वे २ एकं १ चेति । तत्र दश - मिथ्यात्वं अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानः प्रत्याख्यानावरणः सञ्ज्वलनश्च इति एतत् क्रोधचतुष्टयं, एवं मानादिचतुष्टयमपि योज्यम्, अन्यतरो वेदः हास्य-रतियुग्मं अरति - शोकयुग्मं वा भयं जुगुप्सा चेति, भय-जुगुप्सयोः अन्यतराभावे नव ९, द्वयाभावे अष्टौ ८, अनन्तानुबन्ध्यभावे सप्त ७, मिथ्यात्वाभावे षट् ६, अप्रत्याख्यानोदयाभावे पञ्च ५, प्रत्याख्यानावरणाभावे चत्वारि ४, परिवर्तमानयुगलाभावे सञ्चलना - ऽन्यतरवेदोदये सति द्वे २, वेदाभावे एकमिति १।
आयुषोऽपि एकमेव उदयस्थानम् - चतुर्णां आयुषां अन्यतरदिति ।
नाम्नो द्वादश उदयस्थानानि, तद्यथा - विंशतिः २० एकविंशतिः २१ चतुर्विंशतिः २४ पञ्चविंशतिः २५ षड्विंशतिः २६ सप्तविंशतिः २७ अष्टाविंशतिः २८ एकोनत्रिंशत् २९ त्रिंशत् ३० एकत्रिंशत् ३१ नव ९ अष्टौ ८ चेति । तत्र संसारस्थानां सयोगिनां जीवानां दश उदयस्थानानि नाम्नो भवन्ति, अयोगिनां तु चरमद्वयमिति । अत्र च द्वादश ध्रुवोदयाः कर्मप्रकृतयः, तद्यथा - तैजस - कार्मणशरीरे वर्ण - गन्ध-रस - स्पर्शचतुष्टयं अगुरुलघु स्थिरं अस्थिरं शुभं अशुभं निर्माणमिति । तत्र विंशतिः अतीर्थकरकेवलिनः समुद्घातगतस्य कार्मण - शरीरयोगिनो भवति, तद्यथा - मनुष्यगतिः १ पञ्चेन्द्रियजातिः २ सं ३ बादरं ४ पर्याप्तकं ५ सुभगम् ६ आदेयं ७ यशः कीर्तिरिति ८ ध्रुवोदयसहिता विंशतिः २० । एकविंशत्यादीनि तु उदयस्थानानि एकत्रिंशत्पर्यन्तानि जीव - गुणस्थानभेदादनेकभेदानि भवन्ति, तानि च इह ग्रन्थगौरवभयात् प्रत्येकं नोच्यन्त इति, अत एकैकभेदावेदनं क्रियते - तत्रैकविंशतिः गतिः १ जाति: २ आनुपूर्वी ३ त्रसं ४ बादरं ५ पर्याप्ता - ऽपर्याप्तयोः अन्यतरत् ६ सुभग-दुर्भगयोः अन्यतरत् ७ आदेया - ऽनादेययोः अन्यतरत् ८ यशः कीर्ति
टि० १. ०गुणस्थानोदयभेदा० ख ॥
३४८