________________
दुःखोच्छेदोपायनिरूपणम्
[श्रु०१। अ०४ । उ०३ । सू० १४० ]
र्नरा इत्यादि। नराः=मनुष्याः, त एव अशेषकर्मक्षयाय अलम्, नान्ये। तेऽपि न सर्वे, अपि तु मृतार्चा मृता इव संस्काराभावाद् अर्चा- शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः । यदि वा अर्चा तेजः, स च क्रोधः, स च कषायोपलक्षणार्थः, ततश्च अयमर्थः– मृता विनष्टा अर्चा कषायरूपा येषां ते= मृतार्चा:, अकषायिण इत्यर्थः । किञ्चधर्मं श्रुत- चारित्राख्यं विदन्तीति धर्मविदः, इति हेतौ, यत एव धर्मविदोऽत एव ऋजवः=कौटिल्यरहिताः । स्यादेतत् किं आलम्ब्य तद् विधेयम्? इत्यत आहआरंभजमित्यादि। सावद्यक्रियानुष्ठानं आरम्भ:, तस्माज्जातम् = आरम्भजम्, किं तत् ? - दुःखम्, इदम् इति सकलप्राणिप्रत्यक्षम्, तथा हि- कृषिसेवा - वाणिज्याद्यारम्भप्रवृत्तो यत् शारीर-मानसं दुःखमनुभवति तद् वाचां अगोचर इति अतः प्रत्युक्षाभिधायिना इदमा उक्तम्, इतिः उपप्रदर्शने, इत्येतद् अनुभवसिद्धं दुःखं ज्ञात्वा मृतार्चा धैर्मविद ऋजवश्च भवन्तीति। एतच्च समस्तवेदिनो भाषन्तः इति दर्शयति
=
एवमाहु सम्मत्तदंसिणो । ते सव्वे पावादिया दुक्खस्स कुसला परिण्णमुदाहरंति इति कम्मं परिण्णाय सव्वसो ॥ १४०॥
एवमित्यादि । एवं पूर्वोक्तप्रकारेण आहुः = उक्तवन्तः, के एवमाहुः ? समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, यद् उद्देशकादेः आरभ्य उक्तं तदेवं ऊचु इत्यर्थः । कॅस्मात् ते एवं ऊचुः ? इत्याह
ते सव्वे इत्यादि। यस्मात् ते सर्वेऽपि सर्वविदः प्रावादिकाः प्रकर्षेण आ-मर्यादया वदितुं शीलं येषां ते प्रावादिनः, त एव प्रावादिकाः, यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, दुःखस्य शारीर- मानसलक्षणस्य तदुपादानस्य वा कर्मणः कुशलाः = : = निपुणाः, तदपनोदोपायवेदिनः सन्तः ते सर्वेऽपि ज्ञपरिज्ञय परिज्ञाय हेयार्थस्य प्रत्याख्यानपरिज्ञां उदाहरन्ति । इतिः उपप्रदर्शने, इत्येवं पूर्वोक्तया नीत्या कर्मबन्ध - उदय - सत्कर्मताविधानतः परिज्ञाय सर्वशः = सर्वैः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति । यदि व मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञाय इति मूलप्रकारा अष्टौ, उत्तरप्रकृतिप्रकारा अष्टपञ्चाशदुत्तरं शतम्। अथवा प्रकृति-स्थिति- अनुभाव- प्रदेशप्रकारैः । यदि वा उदयप्रकारैः बन्ध-सत्कर्मताकार्यभूतैः आगामिबन्ध- सत्कर्मताकारणैश्च कर्म परिज्ञाय इति । ते चामी उदयप्रकाराः,
टि० १. नरे ग विना ॥ २. निष्कषायिण इति यावत् ख। अकषायिण इति यावत् च ॥ ३. धर्मवेदिनः ख॥ ४. कस्मात् तदूचुः क ग । कस्मात् ते ऊचुः घ च । ङप्रतौ पाठभङ्गः ॥ ५. आ इति खप्रत्योरेव ॥ ६. प्रवचनाय ख ॥
३४७