________________
॥ तृतीय उद्देशकः॥ उक्तो द्वितीयोद्देशकः। साम्प्रतं तृतीय आरभ्यते । अस्य च अयमभिसम्बन्धः- इह अनन्तरोद्देशके परमतव्युदासद्वारेण सम्यक्त्वमविचलं प्रतिपादयता तत्सहचरितं ज्ञानं तत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिंस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीति, अतस्तदधुना प्रतिपाद्यत इति। अनेन सम्बन्धेन आयातस्य अस्य उद्देशकस्य आदिसूत्रम्सू०] उवेहेणं बहिता य लोकं ।
से सव्वलोकंसि जे केइ विण्णू ।
उवेहेणमित्यादि। यः अयं अनन्तरं प्रतिपादितः पाषण्डिलोकः ऐनं धर्माद् बहिः व्यवस्थितं उपेक्षस्व, तदनुष्ठानं माऽनुमंस्थाः । चशब्दः अनुक्तसमुच्चयार्थः, तदुपदेशं अभिगमन-पर्युपासन-दान-संस्तवादिकं च मा कृथा इति। यः पाषण्डिलोकोपेक्षकः स कं गुणं अवाप्नुयात्? इत्याह
से सव्वलोए इत्यादि। यः पाषण्डिलोकं अनार्यवचनं अवगम्य तदुपेक्षां विधत्ते स सर्वस्मिन् लोके ये केचिद् विद्वांसः तेभ्योऽग्रणी: विद्वत्तम इति। स्यात्- लोके केचन विद्वांसः सन्ति येभ्यो अधिकः स्यात्? इत्यत आह
अणुवियि पास णिक्खित्तदंडा जे केइ सत्ता पलियं चयंति णरा मुतच्चा धम्मविदु त्ति अंजू आरंभजं दुक्खमिणं ति णच्चा।
अणुवीड़ इत्यादि। ये केचन लोके निक्षिप्तदण्डा: निश्चयेन क्षिप्तः- निक्षिप्तः परित्यक्तः काय-मनो-वाङ्मयः प्राण्युपघातकारी दण्डो यैः ते विद्वांसो भवन्त्येव, एतद् अनुविचिन्त्य पर्यालोच्य पश्य-अवगच्छ। के च उपरतदण्डाः? इत्यत आह
जे केइ इत्यादि। ये केचन अवगतधर्माणः सत्त्वाः = प्राणिनः, पलितम् इति कर्म, तत् त्यजन्ति, ये च उपरतदण्डा भूत्वा अष्टप्रकारं कर्म घ्नन्ति ते विद्वांसः इत्येतद् अनुविचिन्त्य अक्षिनिमीलनेन पर्यालोच्य पश्य विवेकिन्या मत्या अवधारय। के पुन: अशेषकर्मक्षयं कुर्वन्ति? इत्यत आह
टि० १. प्रतिपादितम् तत्सह० ख॥ २. उवेह इत्यादि क च। उवेहि इत्यादि ग। उवेहे०इत्यादि ख ॥ ३.एवं क ग॥ ४.तदुपदेशगमन० क॥ ५.च इति ख-गप्रत्योर्न ॥ ६.०न् मनुष्यलोके ये ख ग च॥ ७. अनुचिन्त्य चपुस्तकं विना॥ ८.पुनः शेषकर्म० च॥
३४६