SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ [श्रु०१ । अ०३ । उ०४। सू०१२९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् स्यात्- किमेकेनैव भवेन अवाप्तमहायानदेश्यचारित्रस्य मोक्षावाप्तिः उत पारम्पर्येण ?, उभयथाऽ ब्रूमः, तद्यथा— अवाप्ततद्योग्यक्षेत्र - कालस्य लघुकर्मणः तेनैव भवेन मुक्त्यवाप्तिः, अपरस्य तु अन्यथा इति दर्शयति परेण परमित्यादि । सम्यक्त्वप्रतिषिद्धनरक - तिर्यग्गतयो ज्ञानावाप्तयथाशक्तिप्रतिपालितसंयमा आयुषः क्षयात् सौधर्मादिकं देवलोकं अवाप्नुवन्ति; ततोऽपि पुण्यशेषतया कर्मभूमि- आर्यक्षेत्र - सुकुलोत्पत्त्या - ऽऽरोग्य-श्रद्धा- श्रवण-संयमादिकं अवाप्य विशिष्टतरं स्वर्गं अनुत्तरोपपातिकपर्यन्तं अधितिष्ठन्ति पुनरपि ततश्च्युतस्य अवाप्तमनुष्यादिसंयमभावस्य अशेषकर्मक्षयाद् मोक्षः; तदेवं परेण = संयमेन उद्दिष्टविधिना परं=स्वर्गं पारम्पर्येण अपवर्गमपि यान्ति । यदि वा परेण सम्यग्दृष्टिगुणस्थानेन परं - देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकं अधितिष्ठन्ति । परेण वा अनन्तानुबन्धिक्षयेण उल्लसत्कण्डकस्थानाः परं दर्शनमोहनीय-चारित्रमोहनीयक्षयं घातिभवोपग्राहिकर्मणां वा क्षयमवाप्नुवन्ति । एवंविधाश्च कर्मक्षपणोद्यता जीवितं 'कियद् गतं किं वा शेषम् ?' इत्येवं नावकाङ्क्षन्ति, दीर्घजीवित्वं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकाङ्क्षन्तीति । यदि वा परेण परं यान्ति इति उत्तरोत्तरां तेजोलेश्यामवाप्नुवन्तीति । उक्तं च—– "जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं 4कस्स तेयलेस्सं वीतीवयंति ?, गोयमा ! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीतीवयंति । एवं दुमासपरियाए असुरिंदवज्जियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणं, चउमासपरियाए गह- नक्खत्त- तारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिम-सूरियाणं जोइसिंदाणं जोइसराईणं तेजोलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, सत्तमासपरियाए सणंकुमार- माहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोग-लंतगाणं देवाणं, नवमासपरियाए महसुक्क - सहस्साराणं देवाणं, दसमासपरियाए आणय-पाणय-आरण-अच्चुयाणं देवाणं, एंगारसमासपरियाए गेवेज्जाणं, बारसा समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेस्सं वीईवयइ, तेण परं सुक्क सुक्काभिजाई टि० १. ०पि क्रमः । तथा चावाप्त० क ॥। २. ज्ञानावाप्तियथा० ख ग च विना ॥। ३. ०भावस्य शेष० ग ॥। ४. ०जीवितं ख ॥ ५ ० उत्तरोत्तरं ख ॥। ६. एगमासपरियाए ख ॥ ७. गहगण - णक्खत्त० ख घ च ॥ ८. जोइसियाणं जोइसरातीणं ख च । ग - ङप्रत्योः पाठपतनम् ॥ ९. जोइसराणं क ॥ १०. एक्कारसमासे मेवे० ख । एक्कारसमासपरि० च ॥ ११. मुक्के मुक्काभिजाई ग ॥ वि०टि० ⊕ "तेजोलेश्याम् इति सुखलेश्य (श्या) म्" जै०वि०प० ॥ p “अज्झत्ता[ ए ] इति अज्झत्तया” जै०वि०प० ॥ 4 कस्स इति देवादेः " जै०वि०प० ॥ " शुक्लाभिज्झस ( सुक्काभिजाई सिज्झइ ? ) इति शुक्लं सिद्धम् " जै०वि०प० ॥ ३१६
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy