SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आज्ञयाऽभिसमेत्य अकुतोभयम् [श्रु०१। अ०३। उ०४। सू०१२९] भवित्ता ततो पच्छा सिज्झइ ।" [ व्या०प्रज्ञ०१४।९।५३७] यश्च अनन्तानुबन्ध्यादिक्षपणोद्यतः स कि एकक्षयादेव अपवर्तते उत न ? इत्याह एगं विगिंचमाणे पुढो विगिंचइ, पुढो विगिंचमाणे एगं विगिंचइ सड्डी आणाए मेधावी । एगं विगिंचमाणे इत्यादि । एकम् अनन्तानुबन्धिनं क्रोधं क्षपक श्रेण्यारूढः क्षपयन् पृथक् अन्यदपि दर्शनादिकं क्षपयति । बद्धायुष्कोऽपि दर्शनसप्तकं यावत् क्षपयति पृथक् अन्यदपि क्षपयन् अवश्यं अनन्तानुबन्धिनं एकं क्षपयति, पृथक्क्षयान्यथानुपपत्तेः । किंगुणः पुनः क्षपकश्रेणियोग्यो भवति ? इत्याह सडी इत्यादि । श्रद्धा-मोक्षमार्गोद्यमेच्छा विद्यते यस्य असौ = श्रद्धावान्, आज्ञया= तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी मेधावी अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यर्हः, नापर इति । किञ्च-) लोगं च आणाए अभिसमेच्चा अकुतोभयं । लोगं च इत्यादि । चः समुच्चये, लोकं षड्जीवनिकायात्मकं कषायलोकं वा, आज्ञया मौनीन्द्रागमोपदेशेन, अभिसमेत्य-ज्ञात्वा षड्जीवनिकायलोकस्य यथा न कुतश्चिद् निमित्ताद् भयं भवति तथा विधेयम् । कषायलोकप्रत्याख्यानपरिज्ञानाच्च तस्यैव परिहर्तुः न कुतश्चिद् भयमुपजायत इति । लोकं वा चराऽचरं आज्ञया आगमाभिप्रायेण अभिसमेत्य न कुतश्चिद् ऐहिका-ऽऽमुष्मिकापायसन्दर्शनतो भयं भवति । तच्च भयं शस्त्राद् भवति; तस्य च शस्त्रस्य प्रकर्षगतिः अस्ति उत न ? इति, अस्तीति दर्शयति अत्थि सत्थं परेण परं, णत्थि असत्थं परेण परं ॥१२९॥ अत्थि इत्यादि । तत्र द्रव्यशस्त्रं कृपाणादि, तत् परेणापि परमस्ति, तीक्ष्णादपि तीक्ष्णतरमस्ति, लोह-कर्तृसंस्कारविशेषात् । यदि वा शस्त्रं इति उपघातकारि, तत एकस्मात् पीडाकारिणोऽन्यत् पीडाकारी उत्पद्यते, ततोऽपि अपरम्, ततोऽपि अपरमिति, तद्यथा-कृपाणाभिघाताद् वातोत्कोपः, ततः शिरोऽतिः, तस्या ज्वरः, ततोऽपि मुखशोषमूर्छादयः इति । भावशस्त्रपारम्पर्यं तु एकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति । यथा च शस्त्रस्य प्रकर्षगतिः अस्ति पारम्पर्यं वा विद्यते अशस्त्रस्य तथा नास्तीति टि० १. किमेकादिक्षपणादेवाप० ख ॥ २. इत्यत्राह ख ग च ॥ ३. पृथगन्यक्षया० ग || ४. वर्तते च ॥ ५. वातोत्कोचः ख च ॥ ६. तस्माद् ज्वर: ख च ॥ ७. पारम्पर्येण वा ग ।। ३१७
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy