SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ एक-बहुनामव्याप्तिः [श्रु०१। अ०३। उ०४। सू०१२९] अशेषकर्मक्षयः; तदेवं एकाभावे सति बहूनां अभावसम्भवः, ऐकाभावोऽपि चे बह्वभावनान्तरीयक इत्येवं गत-प्रत्यागतसूत्रेण हेतु-हेतुमेद्भावं दर्शयितुमाह जे एगणामे से बहुणामे, जे बहुणामे से एगणामे । जे एगं इत्यादि । यो हि प्रवर्धमानशुभाऽध्यवसायाधिरूढकण्डकः एक अनन्तानुबन्धिनं क्रोधं नामयति-क्षपयति स बहूनपि मानादीन् नामयति=क्षपयति, अप्रत्याख्यानादीन् वा स्वभेदान् नामयति । मोहनीयं वा एकं यो नामयति स शेषा अपि प्रकृती: नामयति । यो वा बहून् स्थितिविशेषान् नामयति सो अनन्तानुबन्धिनं एकं नामयति, मोहनीयं वा । तथा हि- एकोनसप्ततिभिः मोहनीयकोटीकोटिभिः क्षयं उपागताभिः ज्ञानावरणीय-दर्शनावरणीय-वेदनीया-ऽन्तरायाणां एकोनत्रिंशद्भिः नाम-गोत्रयोः एकोनविंशतिभिः शेषकोटीकोट्याऽपि देशोनया मोहनीयक्षपणार्हो भवति, नान्यदा इति; अतोऽपदिश्यते- यो बहुनामः स एव परमार्थत एकनाम इति । नामः इति क्षपकोऽभिधीयते, उपशा[?श]मको वा। उपशमश्रेण्याश्रयेण एक-बहूपशमता बढेकोपशमता वा वाच्या इति । तदेवं बहुकर्माभावमन्तरेण मोहनीयक्षयस्य उपशमस्य वा अभावः; तदभावे च जन्तूनां बहुदुःखसम्भव इति दर्शयति दुक्खं लोगस्स जाणित्ता, वंता लोगस्स संजोगं, जंति वीरा महाजाणं । परेण परं जंति, णावकंखंति जीवितं । दुक्खमित्यादि । दुःखं असातोदयः तत्कारणं वा कर्म, तत् लोकस्य भूतग्रामस्य ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च यथा तदभावो भवति तथा विदध्यात् । कथं तदभावः ? का वा तदभावे गुणावाप्तिः ? इति उभयमपि दर्शयितुमाह वंता इत्यादि । वान्त्वा-त्यक्त्वा, लोकस्य आत्मव्यतिरिक्तस्य धन-पुत्र-शरीरादेः संयोगं ममत्वपूर्वकं सम्बन्धं शारीरदुःखादिहेतुं तद्धेतुककर्मोपादानकारणं वा, यान्तिगच्छन्ति वीराः = कर्मविदारणसहिष्णवः, यान्ति अनेन मोक्षमिति यानं चारित्रम्, तच्च अनेकभवकोटिदुर्लभं लब्धमपि प्रमाद्यतः तथाविधकर्मोदयात् स्वप्नावाप्तनिधिसमतां अवाप्नोति अतो महच्छब्देन विशेष्यते, महच्च तद् यानं च महायानम्, यदि वा महद् यानं सम्यग्दर्शनादित्रयं यस्य सः = महायानः मोक्षः, तं यान्तीति सम्बन्धः । टि० १. एकाभावो हि बह्व० ख । एकभावोऽपि बहुभाव० ङ ॥ २. च इति कप्रतावेव ॥ ३. ०मद्भावेन दर्श० ग ॥ ४. बढेककर्माभाव० ग ॥ ५. मोहनीयस्य क्षयोपशमस्य ख । मोहनीयस्य क्षयस्योप० ग च ।। ६. तदभावात[?त् ] च ॥ ७. धीराः घ-ङप्रती विना ॥ ३१५
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy