________________
[श्रु०१। अ०३। उ०३। सू०१२४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् किंगुणो भवति ? इत्याह
निज्झोस० इत्यादि । पूर्वोपचितकर्मणां निर्दोषयिता क्षपकः क्षपयिष्यति वा, तृजन्तमेतद् लुडन्तं वा । कर्मक्षपणाय उद्यतस्य च धर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्तसंसारसुख-दुःखविकल्पाभासस्य यत् स्यात् तद् दर्शयति
का अरती के आणंदे ? एत्थं पि अग्गहे चरे ।
का अरई के आणंदे ? । इष्टाप्राप्ति-विनाशोत्थो मानसो विकारोऽरतिः, अभिलषितार्थावाप्तौ आनन्दः । योगिचित्तस्य तु धर्म-शुक्लध्यानावेशावष्टब्धध्येयान्तरावकाशस्य अरत्यानन्दयोः उपादानकारणाऽभावाद् अनुत्थानमेव इत्यतोऽपदिश्यते-का इयं अरति म ? को वा आनन्द इति ?, नास्त्येव इतरजनक्षुण्णोऽयं विकल्प इति ।
एवं तर्हि अरतिः असंयमे संयमे चानन्द इत्येतद् अन्यत्र अनुमतं अनेनाभिप्रायेण न विधेयं इत्येतद् अनिच्छतोऽपि आपन्नमिति चेत्; न, अभिप्रायाऽपरिज्ञानात्, यतोऽत्र अरति-रतिविकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अपि अरति-रती, तदाह
एत्थं पीत्यादि । अत्रापि अरतौ आनन्दे वा उपसर्जनप्राये, न विद्यते ग्रहः=गाय तात्पर्य यस्य सः अग्रहः; स एवम्भूतः चरेत् अवतिष्ठेत । इदमुक्तं भवति-शुक्लध्यानाद् . आरतः अरत्यानन्दौ कुतश्चिन्निमित्ताद् आयातौ तदाग्रहग्रहरहितः तावपि अनुचरेदिति । पुनरपि उपदेशदानाय आह
सव्वं हासं परिच्चज्ज अल्लीणगुत्तो परिव्वए ॥१२४॥
सव्वमित्यादि । सर्वं हास्यं तदास्पदं वा परित्यज्य, आङ् मर्यादया इन्द्रियनिरोधादिकया लीन: आलीनः, गुप्तः मनो-वाक्-कायकर्मभिः, कूर्मवद् वा संवृतगात्रः, आलीनश्चासौ गुप्तश्च आलीनगुप्तः, स एवम्भूतः परिः-समन्ताद् व्रजेत्=परिव्रजेत् संयमानुष्ठानविधायी भवेदिति ॥१२४।।
तस्य च मुमुक्षोः आत्मसामर्थ्यात् संयमानुष्ठानं फलवद् भवति, न परोपाधिना इति दर्शयति- पुरिसा इत्यादि । यदि वा त्यक्तगृह-पुत्र-कलत्र-धन-धान्य-हिरण्यादितया अकिञ्चनस्य समतृण-मणि-मुक्ता-लेष्ट-काञ्चनस्य मुमुक्षोः उपसर्गव्याकुलितमतेः कदाचिद् मित्राद्याशंसा भवेत्, तदपनोदार्थमाह
टि० १. ०संसारिसुख० ग । संसारदुःख० च ॥ २. याणंदे ग ॥ ३. च ख ॥ ४. तत्रा० ख ॥ ५. यस्येत्यग्रहः ख ॥ ६. परित्यजेत( त् ) मर्या० ख ॥ ७. परोपरोधेनेति घ ङ ॥
वि०टि० क "(ए)तदन्यत्र इति इहेव ग्रन्थे अन्यत्र प्रक्रमे" जै०वि०प० ॥
३०८