________________
विधूतकल्पाः
'अवरेण पुव्वं किह से अतीतं, किह आगमिस्सं ? न सरंति एगे । भासंति एगे इह माणवा उ, जह से अतीतं तह आगमिस्सं ॥ '
[श्रु०१ । अ०३ । उ०३ । सू०१२४]
अपरेण जन्मादिना सार्धं, पूर्वम् = अतिक्रान्तं जन्मादि न स्मरन्ति 'कथं वा केन वा प्रकारेण अतीतं सुख - दुःखादि ?, कथं चैष्यम् ?' इत्येतदपि न स्मरन्ति । एके भाषन्ते–किमत्र ज्ञेयम् ? यथैवास्य राग-द्वेष - मोहसमुत्थैः कर्मभिः बध्यमानस्य जन्तोः तद्विपाकान् च अनुभवतः संसारस्य यदतिक्रान्तं आगाम्यपि तत् तत्प्रकारमेव इति । यदि वा प्रमाद-विषय-कषायादिना कर्माणि उपचित्य इष्टा ऽनिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादाऽसंविदो यथा संसारोऽतिक्रान्तः तथा आगाम्यपि यास्यति ॥११॥
ये तु पुनः संसारार्णवतीरभाजः ते पूर्वोत्तरवेदिन इत्येतद् दर्शयितुमाह— णातीतमट्ठे ण य आगमिस्सं अट्टं णियच्छंति तथागता उ । णातीयमित्यादि । तथैव अपुनरावृत्त्या गतं - गमनं येषां ते तथागताः सिद्धाः; यदि वा यथैव ज्ञेयं तथैव गतं ज्ञानं येषां ते त - तथागताः सर्वज्ञा: ; तु नातीतमर्थं अनागतरूपतयैव नियच्छन्ति = अवधारयन्ति नापि अनागतं अतिक्रान्तरूपतयैव, विचित्रत्वात् परिणतेः, पुनः अर्थग्रहणं पर्यायरूपार्थार्थम्, द्रव्यार्थतया तु एकत्वमेव इति । यदि वा नातीतमर्थं विषयभोगादिकं नापि अनागतं दिव्याङ्गनासङ्गादिकं स्मरन्ति अभिलषन्ति; के ? तथागताः राग-द्वेषाभावात् पुनरावृत्तिरहिताः; तुशब्दो विशेषमाह यथामोहोदयाद् एके पूर्वमागामि वा अभिलषन्ति; सर्वज्ञास्तु नैवमिति ।
तन्मार्गानुयायी अपि एवम्भूत एव इति दर्शयितुमाह—
विधूतकप्पे एताणुपस्सी णिज्झोसत्ता ।
विहूयकप्पे इत्यादि । विविधम् = अनेकधा धूतम् = अपनीतमष्टप्रकारं कर्म येन सः =विधूतः, कोऽसौ ? कल्पः- आचारः, विधूतः कल्पो यस्य साधोः सः - विधूतकल्पः; स एतदनुदर्शी भवति, अतीता - ऽनागतसुखाभिलाषी न भवतीति यावत् । एतदनुदर्शी च
टि० १. ०न्ति वा । के ? क खपुस्तके विना ॥ २. मोहभयादेके ख ॥ ३ ०म्भूत इति दर्शयति - विहूय ० ख ॥ ४. कल्पो येन स ख ॥
वि०टि० " अर्थम् इति सुखादिकम्" जै०वि०प० ॥ " पर्यायरूपा० इति पर्यायमाश्रित्य तदेव वस्तु तदेव न । किन्तु भिन्ना - ऽभिन्नरूपा" जै०वि०प० ॥
३०७