________________
द्वाभ्यामन्ताभ्यामदृश्यमानः
[श्रु०१ । अ०३ । उ०३ । सू०१२३]
सर्वत्र विरागं कुर्यादिति । अथवा दिव्यादि प्रत्येकं महत् क्षुल्लकं चेति, क्रिया पूर्ववत् ।
x
नागार्जुनीयास्तु पठन्ति
विसयम्मि पैंचगम्मि वि, दुविहम्मिं तियं तियं । भावओ जाणित्ता से न लिप्पड़ दो वि ॥
शब्दादिविषयपञ्चकेऽपि इष्टा ऽनिष्टरूपतया द्विविधे हीन - मध्यमोत्कृष्टभेदं इति एतत् भावतः=परमार्थतः सुष्ठु ज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि राग-द्वेषाभ्यां न लिप्यते, तदकरणादिति भावः । स्यात् - किमालम्ब्य एतत् कर्तव्यम् ? इत्याह
आगतिं गतिं परिणाय दोहिं वि अंतेहिं अदिस्समाणेहिं से ण छिज्जति, ण भिज्जति, ण डज्झति, ण हम्मति कंचणं सव्वलो ॥ १२३ ॥
आगइमित्यादि । आगमनम् - आगतिः; सा च तिर्यङ् - मनुष्ययोश्चतुर्द्धा, चतुर्विधनरकादिगत्यागमनसद्भावात्; देव- नारकयोर्द्वेधा तिर्यङ् - मनुष्यगतिभ्यामेव आगमनसद्भावातु; एवं गतिरपि मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावात् । अतः तां आगतिं गतिं परिज्ञाय संसारचक्रवाले अरघट्टघटीयन्त्रन्यायं अवेत्य मनुष्यत्वे च मोक्षगतिसद्भावं आकलय्य अन्तहेतुत्वाद् अन्तौ राग-द्वेषौ, ताभ्यां द्वाभ्यां अन्ताभ्यां अदृश्यमानाभ्यां अनपदिश्यमानाभ्यां वा, क्त्वाप्रत्ययस्य उत्तरक्रियामाह
से इत्यादि । सः आगति-गतिपरिज्ञाता राग-द्वेषाभ्यां अनपदिश्यमानो न छिद्यते अस्यादिना, न भिद्यते कुन्तादिना, न दह्यते पावकादिना, न हन्यते नरकगत्यानुपूर्व्यादिना भूयशः, अथवा राग-द्वेषाऽभावात् सिद्ध्यत्येव । तदवस्थस्य च एतानि श्री छेदनादीनि विशेषणानि, कंचणमिति विभक्तिपरिणामात् केनचित् सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते राग-द्वेषोपशमादिति ॥ १२३॥
तदेवं आगति-गतिपरिज्ञानाद् राग-द्वेषपरित्यागः; तदभावाच्च छेदनादिसंसारदुःखाभावः । अपरे च साम्प्रतेक्षिणः 'कुतो वयमागताः ?, क्व यास्यामः ?, किं वा तत्र नः सम्पत्स्यते?” नैवं भावयन्ति; अतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह—
टि० १. पंचगम्मी ख विना । पंचगम्मिं च ॥ २. वा च ॥ ३. च घ ङ च ॥ ४. बहुश: ख घ ङ ॥ ५. सिद्ध्यते च । तद० ग ङ । ६. कञ्चनमिति क ॥ ७ सम्पद्यते ङ ॥ ८. ०ते ? इत्याद्यनालोचकाः संसार० ख ॥
वि०टि० " महतु( त्) क्षुल्लका म् ] इति उत्कृष्टं रूपं मह[त् ] । काल - कुब्जादि क्षुल्लकम् । शेषं मध्यमम्" जै०वि०प० ॥ " पूर्ववत् इति विरागं कुर्यात् " जै०वि०प० ॥ नीयते" जै०वि०प० ॥
" न हन्यते इति न
३०५