________________
[श्रु०१। अ०३। उ०३। सू०१२३(१०)] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् यद् यत् करोति येन केनचित् प्रकारेण अनेषणीयपरिहरणं लज्जादिना जनविदितं च . उपवासादि तत् सर्वं मुनिभावकारणमिति । यदि वा समयम् आगमं, तत्र उत्प्रेक्ष्य, यद् आगमोक्तविधिना अनुष्ठानं तत् सर्वं मुनिभावकारणमिति भावार्थः । तेन च आगमोत्प्रेक्षणेन समतोत्प्रेक्षया वा आत्मानं विप्रसादयेद् विविधं प्रसादयेद् । आगमपर्यालोचनेन समतादृष्ट्या वा आत्मानं विविधैः उपायैः इन्द्रियप्रणिधाना-ऽप्रमादादिभिः प्रसन्नं विदध्यात् । आत्मप्रसन्नता च संयमस्थस्य भवति, तत्र अप्रमादवता भाव्यमिति । आह च
अणण्णपरमं णाणी णो पमादे कयाइ वि ।
आतगुत्ते सया वीरे जातामाताए जावए ॥१०॥ अणन्नपरममित्यादि अनुष्टुप् । न विद्यते अन्यः परमः-प्रधानः अस्माद् इति अनन्यपरमः संयमः, तं ज्ञानी-परमार्थवित् नो प्रमादयेत् = तस्य प्रमादं न कुर्यात् कदाचिदपि । यथा चे अप्रमादता भवति तथा दर्शयितुमाह
आयगुत्ते इत्यादि । इन्द्रिय-नोइन्द्रियात्मना गुप्तः आत्मगुप्तः, सदा= सर्वकालं, यात्रा-संयमयात्रा, तेस्यां मात्रा यात्रामात्रा, मात्रा च "अच्चाहारो न सहे" [ आव०नि० १२६६] इत्यादि, तया आत्मानं यापयेत् । यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यात् । उक्तं च"आहारार्थं कर्म कुर्यादनिन्द्यम्, कुर्यादाहारं प्राणसन्धारणार्थम् । प्राणाः सन्धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ॥" [ ] ॥१०॥
सैव आत्मगुप्तता कथं स्यात् इति चेद्, आह
विरागं रूवेहिं गच्छेज्जा महता खुड्डएहिं वा ।
विरागमित्यादि । विरजनं विरागः, तं विरागं रूपेषु मनोज्ञेषु चक्षुर्गोचरीभूतेषु गच्छेत् यायात् । रूपमतीव आक्षेपकारि अतो रूपग्रहणम्, अन्यथा शेषविषयेष्वपि विरागं गच्छेद् इत्युक्तं स्यात् । महता-दिव्यभावेन यद् व्यवस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु
टि० १. ०विधानानुष्ठानं ख-चप्रती विना ॥ २. चाप्रमादवत्ता घ च ॥ ३. तस्या च ॥ ४. आहारस्यार्थं ग । आहाराद्यर्थं च ॥ ५. निन्द्यं, स्यादाहारः प्राण० च ॥ ६. तत्त्वं जिज्ञास्यं येन निष्ठां समेयात् चपुस्तकं विना । तत्त्वं जिज्ञास्यं येन दुःखाद्विमुच्चे( च्येत् ) चूर्णौ ।। ७. असौ चात्मगुप्तता ग ॥ ८. मनुष्येषु सर्वत्र ख ॥
३०४