________________
पापकर्माऽकरणताकारणम् [श्रु०१। अ०३। उ०३। सू०१२३] =विघातयेदिति । यद्यपि कांश्चित् स्थूलान् सत्त्वान् स्वयं पाषण्डिनो न घ्नन्ति तथापि उद्देशिक-सन्निध्यादिपरिभोगानुमतेः अपरैः घातयन्ति ।
न च एकान्तेन पापकर्माऽकरणमात्रतया श्रमणो भवतीति दर्शयति
जमिणं अण्णमण्णवितिगिंछाए पडिलेहाए ण करेति पावं कम्मं किं तत्थ मुणी कारणं सिया ? ॥१२२॥
जमिणमित्यादि । यदिदं यदेतत् पापकर्माऽकरणताकारणं, किं तत् ? दर्शयतिअन्योन्यस्य परस्परं या विचिकित्सा-आशङ्का परस्परतो भयं लज्जा वा, तया तां वा प्रत्युप्रेक्ष्य परस्पराशङ्कया अपेक्षया वा, पापं पापोपादानं, कर्म-अनुष्ठानं, न करोति-न विधत्ते । किं प्रश्ने क्षेपे वा, तत्र तस्मिन् पापकर्माऽकरणे, किं मुनिः कारणं स्यात् ? =किं मुनिरिति कृत्वा पापकर्म न करोति ? "काक्वा पृच्छति । यदि वा यदि नाम असौ यथोक्तनिमित्तात् पापानुष्ठानविधायी न सञ्जज्ञे किं एतावता एव मुनिरसौ ?, नैव मुनिरित्यर्थः । अद्रोहाध्यवसायो हि मुनिभावकारणम्; स च तत्र न विद्यते, अपरोपाध्यावेशात् ।।
विनेयो वा पृच्छति- यदिदं परस्पराशङ्कया आधाकर्मादिपरिहरणं तत् मुनिभावाङ्गतां याति आहोस्विद् न इति ? । आचार्य आह– सौम्य ! निरस्तापरव्यापारः शृणु
जमिणमित्यादि । अपरोपाधिनिरस्तहेयव्यापारत्वमेव मुनिभावकारणमिति भावार्थः, यतः शुभान्तःकरणपरिणामव्यापारापादितक्रियस्य मुनिभावः, नान्यथेति; अयं तावत् निश्चयनयाभिप्रायः । व्यवहाराभिप्रायेण तु उच्यते- यो हि सम्यग्दृष्टिः उत्क्षिप्तपञ्चमहाव्रतभारः तद्वहने प्रमाद्यन्नपि अपरसमानसाधुलज्जया गुर्वाधाराध्यभयेन गारवेण वा केनचिद् आधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणाऽऽतापनादिका जनविज्ञाताः क्रियाः करोति तत्र तस्य मुनिभाव एव कारणम्, तद्व्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः ॥१२२॥ ।
तदेवं शुभान्तःकरणव्यापारविकलस्य मुनित्वे सदऽसद्भावः प्रदर्शितः । कथं तर्हि नैश्चयिको मुनिभावः ? इत्यत आह[सू०] समयं तत्थुवेहाए अप्पाणं विप्पसादए ।
समयमित्यादि । समभावः समता, तां तत्र उत्प्रेक्ष्य-पर्यालोच्य, समताव्यवस्थितो
टि० १. ०करणतया कारणं ख ॥ २. अधर्मादिपरिहरणं ख॥ ३. मुने व घ ॥ ४. समभावं समतां वा तत्रोत्प्रेक्ष्य समताव्यवस्थितो ख ॥
३०३