SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ॥तृतीय उद्देशकः ॥ उक्तो द्वितीयोद्देशकः । साम्प्रतं तृतीय आरभ्यते । अस्य च अयमभिसम्बन्धः-इह अनन्तरोद्देशके दुःखं तत्सहनं च प्रतिपादितम्, न च तत्सहनेनैव संयमानुष्ठानरहितेन पापकर्माऽकरणतया वा श्रमणो भवतीति एतत् प्रागुद्देशार्थाधिकारनिर्दिष्टमुच्यते; अतोऽनेन , सम्बन्धेन आयातस्य अस्य उद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यम्; तच्चेदम्[सू०] संधिं लोगस्स जाणित्ता आततो बहिया पास । तम्हा ण हंता ण विघातए । संधिं लोयस्स जाणित्ता । तत्र सन्धिः द्रव्यतो भावतश्च । तत्र द्रव्यतः कुड्यादिविवरम्, भावतः कर्मविवरम् । तत्र दर्शनमोहनीयं यदुदीर्णं तत् क्षीणम्, शेष उपशान्तमिति अयं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः, यदि वा ज्ञानावरणीयं विशिष्टक्षायोपशमिकभावं उपगतमिति अयं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मकः सन्धिः; तं ज्ञात्वा न प्रमादः श्रेयानिति । यथा हि लोकस्य चारकाद्यवरुद्धस्य कुड्य-निगडादीनां सन्धि-छिद्रं ज्ञात्वा उपलभ्य न प्रमादः श्रेयान्; एवं मुमुक्षोरपि कर्मविवरं आसाद्य क्षणमपि पुत्र-कलत्र-संसारसुखव्यामोहो न श्रेयसे भवतीति । यदि वा सन्धानं-सन्धिः, स च भावसन्धिः ज्ञान-दर्शन-चारित्राध्यवसायस्य कर्मोदयात् त्रुट्यतः पुनः सन्धानं मीलनम्, एतत् क्षायोपशमिकादिभावलोकस्य विभक्तिपरिणामाद् वा लोके ज्ञान-दर्शन-चारित्रार्हे भावसन्धि ज्ञात्वा तदक्षूणप्रतिपालनाय विधेयमिति । यदि वा सन्धिः अवसरो धर्मानुष्ठानस्य, तं ज्ञात्वा लोकस्य भूतग्रामस्य दु:खोत्पादनानुष्ठानं न कुर्यात् । सर्वत्र आत्मौपम्यं समाचरेद् इत्याह आयओ इत्यादि । यथा हि आत्मनः सुखमिष्टं इतरत् तु अन्यथा तथा बहिः अपि आत्मनो व्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वं असुखाऽप्रियत्वं च पश्य अवधारय । तदेवं आत्मसमतां सर्वप्राणिनां अवधार्य किं कर्तव्यम् ? इत्याह तम्हा इत्यादि । यस्मात् सर्वेऽपि जन्तवो दुःखद्विषः सुखलिप्सवः तस्मात् तेषां न हन्तान व्यापादकः स्यात्, नापि अपरैः तान् जन्तून् विविधैः नानाप्रकारैः उपायैः घातयेत् टि० १. अथोऽनेन ङ ॥ २. आसाद्य लव-क्षणमपि घ ङ ॥ ३. विधिरयमिति घ ङ ॥ ४. सर्वत्रात्मौपयिकमाचरेदित्याह ख ॥ ५. व्याघातकः ख ॥ वि०टि० ० "विधेयम् इति मीलितमित्यनेन सम्बन्धः" जै०वि०प० ॥ ३०२
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy