________________
ज्ञानिनो द्वितीयानासेवनम् [श्रु०१। अ०३। उ०२। सू०११९] __'किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्वन्ति ते तथाभूता एवासते उत अन्यथा ?, अन्यथाऽपीति दर्शयति[सू०] आसेवित्ता एयमढे इच्चेवेगे समुट्ठिता।
तम्हा तं बिइयं नासेवते णिस्सारं पासिय णाणी ।
आसेवित्ता इत्यादि । ऐनम् अनन्तरोक्तं अर्थं अन्यवध-परिग्रह-परितापनादिकं आसेव्य इत्येव इति लोभेच्छाप्रतिपूरणाय एव एके भरतराजादयः समुत्थिताः सम्यग् योगत्रिकेण उत्थिताः संयमानुष्ठानेन उद्यताः तेनैव भवेन सिद्धिमासादयन्ति । संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि च आश्रवद्वाराणि हित्वा किं विधेयम् ? इत्याह
तम्हा इत्यादि । यस्माद् वान्तभोगतया कृतप्रतिज्ञः तस्माद् भोगलिप्सुतया तेद् द्वितीयं मृषावादमसंयम वा नासेवेत । विषयार्थमसंयमः सेव्यते; ते च विषया निःसारा इति दर्शयति
निस्सारं इत्यादि । सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिः, तदभावाद् निःसारः; तं दृष्ट्वा ज्ञानी तत्त्ववेदी न विषयाभिलाषं विदध्यात् । न केवलं मनुष्याणाम्, देवानामपि विषयसुखास्पदं अनित्यं जीवितं इति च दर्शयति
उववायं चयणं णच्चा अणण्णं चर माहणे ।
से ण छणे, न छणावए, छणंतं णाणुजाणति ।
उववायं चयणं नच्चा । उपपातं जन्म, च्यवनं पातः; तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति । यतो निःसारो विषयग्रामः समस्तसंसारो वा सर्वाणि च स्थानानि अशाश्वतानि ततः किं कर्तव्यम् ? इत्याह
अणण्णमित्यादि । मोक्षमार्गाद् अन्यः असंयमः, न अन्यः अनन्यः ज्ञानादिः, तं चर, माहण इति मुनिः । किञ्च
से न छणे इत्यादि । स मुनिः अनन्यसेवी प्राणिनो न क्षणुयात्=न हन्यात्, न अपरं घातयत्, घ्नन्तमन्यं न समनुजानीत । चतुर्थव्रतसिद्धये तु इदमुपदिश्यते
टि० १. किं ये ते लोभ० क ॥ २. उतान्यथाऽपि ? इति दर्श० ख ग च ॥ ३. एवम् क च ॥ ४. ०न चोत्थाय ख च । ५. तत्र ग । तं घ ङ ॥ ६. नासेवते क ॥ ७. चवणं ग घ ङ ॥ ८. ०त् । घातयन्तं न सम० ख-चप्रती ऋते ॥
२९९